________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3429 बोधयितुं दशश्लोकी प्रणिनिनाय । नन्विदङ्कारास्पदेभ्यो विवेकेनाहङ्क रास्पदमात्मानं सर्वो लोकोऽहमस्मीति प्रत्येति । दुःखं चानुभवति ।
एवं स(ा)मान्यतोऽहम्प्रत्ययसिद्धे चिदात्मनि वादिविप्रतिपत्तिभिस्सन्दिग्धे हम्प्रत्ययस्यालं(लम्ब नविशेषनिर्णयायाह भगवान् श्रीशङ्कराचार्यःन भूमिर्न तोयं न तेजो न वायुन खं नेन्द्रियं वा (न) तेषां समूहः । अनैकान्तिकत्वात्सुषुप्त्येकसिद्धस्तदेकोऽवसि(शि)ष्टः शिवः क केव)लोड
हम् ॥ अस्यार्थः
अहमहंप्रत्ययालम्बनमेकोऽद्वितीयोऽवशिष्टस्सर्वद्वैतबाधेऽप्यबाधित - शिवः परमानन्दबोधस्तस्यैव मङ्गलरूपत्वात्केवलो निर्धर्मकस्तेनाद्वितीयः सर्वप्रमाणाबाध्यः परमानन्दबोध एवाहंप्रत्ययालम्बनमित्यौपनिषदपक्ष एव श्रेयानित्यर्थः । एतदुपपादनायेतरवादिमतानि निराकरिप्यन् प्रथम देहात्मवादं निराकरोति-न भूमिर्न तोयं न तेजो न वायुन खमिति । End :
तदेवं वेदान्तवाक्यजन्याखण्डाकारवृत्त्या विद्यानिवृत्तौ तत्कल्पितसकलानर्थनिवृत्तौ परमानन्दरूपस्सन् कृतकृत्यो भवतीति सिद्धम् ॥
न स्तौमि तं व्यासमशेषमर्थ सम्यक सूत्रैरपि यो बबन्ध । विनापि तैस्सङ्ग्रथिताखिलार्थ शंत(तं श)ङ्करं नौमि सुरेश्वरं च ॥ लघुरपि बह्वर्थवहश्चिन्तामणिरिव निबन्धोऽयम् । मधुसूदनेन मुनिना विहितो गुणिनां विनोदाय ||
यदत्र सौष्ठवं किश्चित्तद्गुरोरेव मे न हि । यदत्रासौष्ठवं किञ्चित्तन्ममैव गुरोर्न हि ॥
For Private and Personal Use Only