SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3226 A DESCRIPTIVE CATALOGUE OF End: या चितिस्सप्तभूतानामुदयव्ययसाक्षिणी । तां चित्ति पश्य कायस्थां पूर्णानन्दघनामृताम् ।। शिवोऽन्यत्र मनोऽन्यत्र शक्तिरन्यत्र मारुतः । न सिध्यति वरारोहे कल्पकोटिशतैरपि ।। ज्ञानं कुतो मनसि जीवति देवि यावत् प्राणेऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयमिदं विलयं प्रयाति मोक्षं स गच्छति नरो न कथञ्चिदन्यः ॥ एवं समभ्यसेत्तावत् यो ब्रह्माण्डमयो भवेत् । वायुर्बिन्दुस्तथा चक्रं चित्ते युक्तं समभ्यसेत् ।। समाधिनैकेन समममृतं यान्ति योगिनः । यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥ विना चाभ्यासयोगेन ज्ञानदीप्तिर्न चैव हि । घटमध्ये यथा दीपो बाह्ये नैव प्रकाशयेत् ।। भिन्ने तस्मिन् गते चैव दीपज्वालावभासते । स्वभावं घटमित्युक्तं दीपमेव हि तत्पदम् ।। गुरुवाक्यात्समाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् । कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मान्तराणि च !। अभ्यासवाह(स)नासक्तास्तरन्ति भवसागरम् । मत्स्येन्द्र उवाच-- तव पादप्रसादेन मुक्तोऽहं भवबन्धनात् । त्वं गतिर्देवदेवेश नान्यथा मेऽस्ति शङ्कर ॥ श्रुत्वा मत्स्येन्द्रवाक्यन्तु प्रविष्टो भगवान् शिवः । गच्छ पुत्र पृथिव्यां त्वं त्रैलोक्यं चोद्धरिष्यसि ।। Colophon: इति महेश्वरेण विरचितं चन्द्रावलोकनं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy