________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3401
विमथ्य वेदोदधितस्समुद्भुतं सुरैर्महाब्धेस्तु यथा महात्मभिः । तथामृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमीक्षितं च यैः ।।
विमथ्य विचार्य । पूर्वपक्षसिद्धान्तपरिग्रहहारेण । . . . . . . तस्मान्मुमुक्षुभिः ब्रह्मात्मज्ञानार्थिभिः । गुरुभक्तैर्देवताभक्तैश्च यत्नेन भवितव्यमित्येवं वाक्यप्रत्ययानुसारेण ज्वरनाशप्रकरणस्य पदार्थविवरणं कृतं देवतागुरुभक्तिप्रेरितेन मया ॥
इति सप्तशतश्लोका यतीन्द्रश्रीमुखोद्गता(:) । विवृता गुरुभक्तेन मया ब्रह्मात्मबोधकाः ॥ उपास्य श्रद्धया श्रीमद्विद्याधाममुनेचिरम् । श्रीमत्पदाम्बुजं तस्य प्रसादान्न स्वबुद्धितः ।। येन मे निखिलाद्वैतादाकृष्य मन आत्मनि । स्थापितं मुनिमुख्येन यावजीवं नमामि तम् ।।
यद्भाष्यसागरजयुक्तिमणिप्रकीर्णान् प्राप्याधुना कतिपयान् कवयो भवन्ति । तस्मै नमो जनमनोज्ञदिवाकराय
कृत्स्नागमार्थनिलयाय यतीश्वराय ॥ Colophon:
इति श्रीमद्विद्याधामशिष्येण बोधनिधिना श्रद्धामात्रप्रेरितेन कृतमुपदेशग्रन्थविवरणं समाप्तम् ।।
यत्पादकमलासङ्गानिर्वाणं प्राप्तवानहम् ।
सर्वान्तरात्मपूज्यांस्तान् प्रणमामि गरीयसः ।। Beginning of the prose portion :
सर्वोपनिषत्सारसङ्घाहिका पद्यगद्यात्मिका हीयमुपदशसाहस्री । तत्र पद्यभागं प्रागुक्तया परिपाट्या परिसमाप्य गद्यभागमवतारयन् भगवान्
For Private and Personal Use Only