SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3386 End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF यदिदं पूरितं सर्वमात्मन्येवात्मनात्मनि । निराकारं कथं वन्दे को वा वन्द्यो मदन्यतः || पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् । कस्येहाभून्नमस्कारः योऽहमेको निरन्तरः || आत्मैव केवलाभेदो भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूमो विस्मयः प्रतिभाति मे । वेदान्तसार सर्वस्वं ज्ञानं विज्ञानमेव च । अहमात्मा निराकारः सर्वे वेद्मि स्वभावतः || यो वै सर्वात्मको देवो निष्कम्पो गगनोपमः । स्वभावनिर्मलश्शुद्धः स एवाहं न संशयः ॥ अहमात्मा परो ह्यन्तः शुद्धो विज्ञानविग्रहः । सुखं दुःखं न जानामि कथा वापि प्रवर्तते ॥ धर्मादी मोक्षपर्यन्ते निबर्हास्सर्वदा वयम् । कथं रागविरागश्च (गौ च ) कल्पयन्ति विपश्चितः ॥ विन्दति विन्दति नहि नहि मन्त्रं नहि नहि छन्दोलक्षणतन्त्रम् । समरसमो भावितपूतः प्रलपितमेतत्कथमवधूतः ॥ Colophon : इत्यवधूतग्रन्थे दत्तात्रेयगोरख (क्ष) संवादे स्वात्मसंयुक्त्युपदेशे निर्वाणनिष्ठामाहात्म्यं नाम सप्तमप्रकरणम् || सर्व सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy