________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3379
णशून्ये मन्मते ग्रामसिंहस्य शुनकस्य इष्टनैष्कर्म्यब्रह्मगानामिष्टादिपदाव्यवहितोत्तराणां(सां) सिद्धीनां सिद्धीति पदानां नामनामिनोरभेदोपचारात् इष्टसिद्ध्यादिग्रन्थलाभः ; हिरण्यपूर्व कशिपुं प्रचक्षत इतिवत् ब्रह्मगानामित्यन्ते लक्षणया वा तल्लाभः ।।
महानुभावधौरेयशिवरामाख्यवर्णिनः । एतद्वन्थस्य कर्तारो लेखकाः केवलं वयम् ॥ श्रीनारायणतीर्थानां षट्छास्त्रीपारमीयुषाम् । चरणौ शरणीकृत्य तीर्णस्सारस्वतार्णवः ॥ भजे श्रीपरमानन्दसरस्वत्यङ्ग्रिपङ्कजम् । यत्कृपादृष्टिलेशेन तीर्णस्संसारसागरः ।। यद्यत्सम्भवदुक्तिकं परवचः सम्भूष्य तद्भ(९)षितं व्याख्यातश्च निगूढभावगहनो वाणीसुधासागरः । सर्व तच्छरदिन्दुसुन्दरमुखश्रीकृष्णलीलातनौ मालाभावमवाप्य सज्जनमनोमालां समाकर्षतु ।। एषा यद्यपि चन्द्रिकाखिलमनोराजीवराजेररि(विः) ध्वान्तोच्छेदकरी(सरी)सृपमुखव्याघातमुद्राकरी । साधूनां सरलस्वभावकरुणाकूपारसारात्मनां
चेतश्चन्द्रमणीमणीषु रमणी जात्या तथापि स्फुटम् ।। Colophon:
इति श्रीपरमानन्दसरस्वतीपूज्यपादशिष्यश्रीब्रह्मानन्दसरस्वतीविरचि. तायामद्वैतसिद्धिटीकायामद्वैत(चन्द्रिकाख्यायां लघुचन्द्रिकायां मुक्तिपरिच्छे. दो नाम तुरीयः परिच्छेदः) समाप्तः ॥
For Private and Personal Use Only