________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3375
No. 4527. अद्वैतसिद्धिः .
ADVAITASIDDHIH. Pages, 156. Lines, 16 on a page.
Begins on fol. la of the MS. described under No. 2211. First Pariccheda only : complete. A well-known polemical treatise on Advaita-Vēdānta.
It criticises the views of the Dvaita school and endeavours to establish the soundness of the Advaita school.
By Madhusudan asarasvatī, pupil of Visvēśvarasarasvati.
Beginning:
मायाकल्पितमात्रतामुखमृषाद्वैतप्रपञ्चाश्रयः सत्यज्ञानसुखात्मकश्रुतिशिखोत्थाखण्डधीगोचरः । मिथ्याबन्धविधूननेन परमानन्दैकतानात्मकं
मोक्ष प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ।। श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम् । स्पर्शेन निघूततमोरजे(जो)भ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः ।। बहुभिर्विहिता बुधैः परार्थ विजयन्तेऽमितविस्तृता निबन्धाः ।
मम तु श्रम एष नूनमात्मभरितां भावयितुं भविष्यतीह ॥ श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् । बोधाय वादिविजयाय च सत्व(ह)राणामद्वैतसिन्हिरियमस्तु मुदे बुधानाम् ।। ___ तत्र अद्वैतसिद्धेद्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम् ; उपपादनञ्च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् ; तत्र विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया । यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासम्पादकतयोपयोगः, सिसाधयिषाविरहसहकृतमानाभावरूपायास्तस्यास्संशयाघटितत्वात् ; अन्यथा
308-A
For Private and Personal Use Only