SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3370 A DESCRIPTIVE CATALOGUE OF सच्चिदानन्दयोगीन्द्रा जायन्ते भुवि केचन । यत्कृपाबलतस्तीर्णो मया संसारवारिधिः ॥ इह खलु लक्ष्मीधरो नाम कश्चित्कवीन्द्रो निरन्तरनित्याद्यनुष्ठानशुद्धस्वान्ततया सञ्जातविवेकवैराग्यशमादिमुमुक्ष()वतः आत्मविविदिषया सन्त्यक्तलोकवेदधर्मवतः गुरुवरचरणोपसर्पणपुरस्सरं विधिवत् सम्यक् श्रुतवेदान्ततत्त्वे असम्भावनया प्रतिबन्ध(द्ध)ज्ञानतया अपरितुष्यतः क(का)श्चित्पुरुषधौरेयानुपलभ्य सञ्जातकरुणस्तेषां करतलबिल्वफलवत्स्फुटं वेदान्तप्रतिपाद्यं ब्रह्म सच्चिदानन्दलक्षणं सर्वज्ञं सर्वोपादानं नित्यं सर्वगमद्वयं देहेन्द्रियप्राणमनोबुद्ध्यहङ्कारसाक्षिप्रत्यगभिन्नतया तर्कैस्सम्भावयितुं किञ्चित्प्रकरणमद्वैतमकरन्दाख्यमारभमाणश्चिकीर्षितस्य()विघ्नपरिसमाप्तये स्वेष्टदेवतानमस्काररूपं मङ्गळं स्वयमनुष्ठाय शिष्यशिक्षायै ग्रन्थतो निबध्नाति-कटाक्षेति । युक्तबोधितं हमाम ... सद्यो । मङ्गलनिबर्हितसकलान्तरायः प्रथमं तत्त्वमस्यादिवाक्यैः तात्पर्ययुक्तैर्बोधितं प्रत्यगात्मनो ब्रह्मत्वं युक्तया सम्भावयन्नाह --- अहमस्मि . . , . . . . . . लक्षणः । अहम् अहङ्कारादिसाक्षी सद्रूपो भवामि आत्मन्यध्यस्ताहङ्कारादेस्सत्ताप्रदत्वात् सदा अवस्थात्रयेऽपि भवामि । जाग्रदि(ति देहेन्द्रियादिसाक्षितया, स्वप्नेऽन्तःकरणादिवासनाप्रपञ्चसाक्षितया, सुषुप्तावज्ञानसाक्षितया च प्रकाशे । End : यद्यप्यत्र प्रतिश्लोकं बहु वक्तव्यमस्ति, तथापि मन्दबुद्धीनामलसानां व्युत्पादना(य)प्रवृत्तेन मया ग्रन्थकाठिन्यगौरवभयादुपरतमिति ।। अद्वैतमकरन्दस्य रसाभिव्याञ्जका कृता । स्वयम्प्रकाशयतिना पुरुषोत्तमशासनात् ।। आत्मानन्दरसास्वादमिच्छद्भिर्विबुधोत्तमैः । रसाभिव्यञ्जिका ह्येषा परिशील्या सदादरात् ।। For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy