________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3367
अणुं महान्तं तमचिन्त्यवृत्तं श्रीनारसिंहं गुरुमानतोऽस्मि || अबोधवार्तापि न यहिनयेष्वथाप्यबुद्धं जगदेव येन । शुद्धस्वरूपामलबोधरूपं प्रबोधपूर्णाख्यगुरुं नुमस्तम् ॥ गणेशानं(न) नमामि त्वां गुणान् फणितुमक्षमः ।
यत्ते प्रसादाद्वागीशशर्वाद्यास्सफलक्रियाः ।। मातर्नमामि तव चारुपदारविन्दं तीर्थप्रभेदपरिलब्धनिजानुभावम् ।
गीर्वाणदारकबरभ्रमरीकुलाढ्यं विद्यामयामलमनोज्ञपरागपात्रम् ॥ अद्वैतदीपमनवद्यपरात्मबोधभासा भवप्रमुखमूलतमःप्रमोषम् । सम्प्राप्य दुर्लभदृशोऽपि हि मामकीनाः श्रेयो भजन्त्विति समूह्य कृतिं करोमि ॥
प्रारिप्सितस्य प्रकरणस्याविघ्नपरिसमाप्तिप्रचयगमनाभ्यां शिष्टाचारपरिपालनाय च प्रकरणप्रतिपाद्यस्याद्वितीयस्यात्मतत्त्वस्य चैतन्यस्याविर्भावप्रार्थनालक्षणं मङ्गलं कुर्वन् अर्थात् प्रकरणस्याधिकारिविषयप्रयोजनानि निर्दिशति-यस्मादिति । अर्धसिंह(तस्य)वपुः खरूपं मम प्रकटमस्त्विति सम्बन्धः । मायोपाधिकं बिम्बप्रतिबिम्बभावात्मकम् अखण्डचैतन्य बिम्बभावेनेश्वररूपं तदिदमुक्तमर्धसिंहमिति ; अर्धेन बिम्बरूपेण सिंहमीश्वराकारमित्यर्थः । अर्थाचार्धेन प्रतिबिम्बरूपेण नृशब्दवाच्य जीवरूपमिति सिध्यति । तथाच श्रुतिः--
एष एव नृ एष एव हि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ हि सर्वत्र सर्वदा सर्वात्मा सन् सर्वमत्ति नृसिंह एवैकलय इति ।
Colophon: ___ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमन्नृसिंहाश्रमपूज्यपादशिष्यश्रीनारायणाश्रमविरचिते अद्वैतदीपिकाविवरणे प्रथमः परिच्छेदः ॥
For Private and Personal Use Only