SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3356 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF गुरुभिरुपदिष्टभावां व्याकुर्वे शास्त्रदीपिकामनघाम् । आकृष्टसकलसारां लघुभिर्वाक्यैः प्रसन्नगम्भीरैः || आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । प्रथमसूत्रसङ्कीर्तनेन त्रिपाद्यां करिष्यमाणस्यार्थवादादिप्रामाण्यविचारस्य शास्त्रसङ्गतिं दर्शयति-अथात इति । I अथ वेदाध्ययनानन्तरम्। अतः अध्ययनस्य वृत्तत्वात् । धर्मस्यालीकिकश्रेयस्साधनस्य जिज्ञासा विचारः । कर्तव्य इति शाब्द्या सौत्रप्रतिज्ञया धर्मे यत्प्रमाणं तस्य यत् स्वरूपं साधनं फलं च, ये च तत्प्रमाणाद्याभासा बुद्धाद्यागमतच्चोदितचैत्यवन्दनादिस्वरूपतत्साधनतत्फलात्मकास्तत्तदाब - करणपूर्वपक्ष्युत्प्रेक्षितार्थावच्छिन्नतत्तद्विषयवाक्य समर्पितस्वरूपसाधनफलात्मकाय, तेषामप्यर्थाद्विचारः प्रतिज्ञातो भवति ; प्रमाणमुखेनैव धर्मस्य निर्णेयत्वात्। स्वरूपसाधनफलनिर्णयमन्तरेण अनुष्ठानद्वाराभ्युदयपर्यवसानासम्भवात् । आभासनिरूपणं विना तत्प्रहाणायोगाच्चेति भावः । End: श्रुतिर्विध्यर्थवादमन्त्रनामधेयभेदेन चतुर्विधा । प्रथमपादे विधिः, द्वितीये मन्त्रार्थवादौ, चतुर्थे नामधेयं, तृतीये स्मृत्याचारौ इत्येवं कृत्स्नेन प्रथमाध्यायेन धर्मप्रमाणचिन्ता वृत्ता । इतः परं द्वितीये धर्मभेदस्य, तृतीये विनियोगस्य, चतुर्थे प्रयोगस्य, पथमे क्रमस्य, षष्ठे फलस्य, सप्तमादिष्वतिदेशोहबाधतन्त्रप्रसङ्गानां चिन्ता वर्तिप्यत इत्यर्थः । विध्यर्थवादादीनां केषां चित् ऋतुभेदेनानुक्रमणं क्रमातिदेशादीनां केषां चिदादिशब्देन ग्रहणं च वसन्ततिलकावृत्तानुरोधात् ॥ Colophon : इति शास्त्रदीपिकामयूखावळयां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्वाध्यायः ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy