SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAB SANSKRIT MANUSCRIPTS. 3339 Beginning : उद्घाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाणः । यः प्रस्फुरत्यविरतं परिपूर्णरूप(:) श्रेयस्स मे दिशतु शाश्वतिकं मुकुन्दः ।। जन्मस्थेमलयं समस्तजगतां यस्यैव लीलायितं यस्मिन्नायतते भवस्थिरमहापाशक्षयः प्राणिनाम् । तद्ब्रह्मादिभिरण्यगम्यविभवं विश्वाधिकं शाश्वतं साम्बं ब्रह्म रसालमूलरसिकं साक्षाक्रियासं सदा॥ यत् कुमारिलमतानुसारिणा निर्मितं विधिरसायनं मया । पद्यरूपमनतिस्फुटाशयं तत्सुखावगतये विचार्यते ॥ प्रारिप्सितस्य प्रकरणस्याविनेन समाप्तये सूत्रकारस्य महर्षेरनुस्मरणरूपं मङ्गळमाचरन्नेव प्रकरणारम्भं तावदाक्षिप्य समाधत्ते-- विख्याता मुनिवर्यसूक्तिषु विधास्तिस्रो विधिस्रोतसामाचार्यैर्विशदं विभक्तविषयास्ताश्च व्यवस्थापिताः। किं तत्रास्ति विचार्यमार्यमथिते मार्गे निसर्गोज्ज्वले नानोदाहरणैस्तु ताः प्रविशदीकर्तुं प्रवर्तामहे ॥ मुनिवर्यस्य भगवतो जैमिनेस्सूत्रेषु विधिर्वा स्यादपूर्वत्वानियमार्था वा पुनश्श्रुतिः परिसङ्खचा वा इत्येवमादिषु त्रयो विधिप्रकाराः प्रसिद्धाः-- अपूर्वावधिनियमविधिः, परिसङ्ख्याविधिश्चेति । ते च भट्टपादैः परस्परासङ्कीर्णविषयतया स्पष्टमेवोपपादिताः । तत्र स्वत एव निरवद्ये ग्रन्थकारैश्च बहुभिर्निरूपिते अपूर्वविध्यादिविभागे नूतनं किञ्चिद्विचारणीयं नास्त्येव । Soe under the next number for the end. For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy