SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TEE SANSKRIT MANUSCRIPTS. 3335 Beginning : पर्यायवेदचूडार्यश्चकास्तु हृदि मे सदा। आत्रेयवेङ्कटाचार्यः कविविद्वच्छिखामणिः ।। श्रुत्या ग्राह्ये जन्म यस्मिन्विधीनास्स(नांस)। वर्णास्सिद्धिमन्तो यदङ्गे । भक्तया ध्येये तत्र नित्ये परस्मिन् देवे देप्या यतन्ते धि(?)|| भद्रं तनोतु परमं परमेष्ठियज्ञे कृप्तोदयं वरदनाम किमप्यपूर्वम् । आत्मन्यवस्थितमिदं निजकीर्तनेन धत्ते स्थिरं फलमथापि यद व्यपायम् ॥ विदधानमनन्यलभ्यमर्थ नियमं चाभ्युदयाय निर्वहन्तम्। परिकृप्तनिवृत्तिधर्मबोधं प्रभुमान्यं परिचिन्तये विधिं च ।। जैमु(मि)निमुनिस्स भगवान् जयति प्रज्ञानिधिर्जगत्पूज्यः । भकृतकसरखतीनां मङ्गलसूत्राणि यस्य सूत्राणि ।। प्रख्यातः प्रणतार्तिहृद्भरुरिति श्रीभाष्यकर्तुर्मुनेः यो माहानसिकस्तदुक्तिरसिकश्श्रीमान्यदत्राभवत् । वंशे तत्र हि वादिहंसजलदाचादिभिर्भूषिते यज्वाभूद्रघुनाथदेशिकमणिः श्रीश्रीनिवासेष्टिनः ।। तनूभवः कवेस्तस्य तनोत्यत्रिकुलोद्भवः । विधित्रयपरित्राणं वेङ्कटाचार्यदीक्षितः ।। विस्तरो विधिरसायने(रि)तो नानुभाष्यत इहाखिलो मया। तत्र कृप्तमनुवादनं बुधैक्ष्यि दूषणसमाधिरीक्ष्यताम् ॥ अत्र यद्यपि पद्यानामभिप्रायो न दुर्ग्रहः । तथापि बालबोधाय तन्वे तद्विवृतिं स्वयम् ॥ For Private and Personal Use Only
SR No.020194
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 09
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages377
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy