________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3324
A DESCRIPTIVE CATALOGUE OF
निर्दोषाध्यक्षसिद्धं कथककुहनयापहवाहै न किञ्चि
न्याये कस्यापि कृप्तिः कथमपि न भवेदन्यथासिद्धिमाद्भः । निर्बाधं नापि वाक्यादवगतमनृतं निश्चितेऽप्यान्यपर्ये त्रिस्थूणेऽस्मिन्प्रमाणैः स्थिरमतिभवने मा(भा)ति मीमांसितोऽक्ष(थ): ।।
मीमांसेत्येकमेतच्छृतिविषयनयस्तोमसङ्ग्राहि शास्त्रं षट्काध्यायाभिभेदैभिदुरतरतनुस्सा त्रिभिः काण्डभेदैः । सङ्गत्या च त्रयाणां क्रमनियतिरपि स्यादिहौचित्यवत्या विंशत्या लक्षणैः खल्वियमवयाविनी वृत्तिकारोपदिष्टा ॥ विद्यास्थानानि चत्वार्यगणिषत पृथग्वेदरूपत्वसाम्ये द्वे चाप्यन्ये विभक्ते ह्युपपदघटित(तं)श्वम(बृह)णत्वं दधाने । मीमांसाशास्त्रसाम्येऽप्यत इह घटते भिन्न विद्यासमत्वं मैवं मन्वादिभिस्तत्पृथगनुपठनाभावतस्तत्र वाहा(णा)त् ॥ काले कौमारिलादिष्वधिकबहुमतौ कस्त्वदिष्टं ग्रहीता कस्मै रोचेत पूर्वश्रुतहृतमनसे कृप्तिरन्येति चेन्न । स्वीकुर्वन्त्यस्मदुक्ति स्वमतगुणतिरस्कारकप्रत्यनीकप्रत्यग्विद्याधुरीणप्रथितबहुमहावंशजाता महान्तः ।। किञ्चित्केनापि दृष्टं प्रतिहतिविषयं तेन तत्ते च तैस्तैः द्वे चोपादायिषातां द्वितयमपि सदित्यप्रमत्तो न वक्ता । इत्थं सत्येकभक्तैरितरपरिहृतौ न व्यवस्था न सिद्धिः प्रत्येतव्यं तदर्थ्य(थ) पटुतरमतिभिः प्राक्तनं नूतनं वा ।। शिष्याचार्यो विरुद्धं ननु(तु) मतमधुना साधयन्तौ प्रसिद्धौ स्वाभीष्टाच्छास्त्रमन्यत्सुरसचिवमुखैः कल्पितं किं न विद्मः ।
For Private and Personal Use Only