________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3321
Beginning:
(वस्तुत)स्तु किन्नामतः किमाख्याताद्विषयं प्रत्येष्यामीति सन्दिग्धे सन्देहादननुष्ठानं निर्णये त्वनुष्ठानमिति विचारप्रयोजनम् । अत एव व्युत्पत्तिदशायां क्रियाकारकान्वयाभिधानाभ्युञ्चयेन पूर्वाधिकरणे राद्धान्तितम् । अत्र चाख्यातात् साध्यावस्थाधिगतेः तदवस्थस्य कृत्यन्वयमुखेन विषयभावयोग्यत्वादाख्यातमेव विषयमर्पयतीति राद्धान्तः । व्युत्पत्त्युपाधितया वेदमधिगतं यदाख्यातमिष्ट फलसाधनकर्मक्षणनिचये प्रयुज्यत इति। इष्ट. फलावच्छेदश्च सजातीयक्षणनिचयस्य च विजातीयक्षणनिचयस्य च । तत्र सजातीये तन्त्रेण धातुर्वर्तते ; विजातीये तु स्वार्थातिरिक्ते । आक्षेपादिष्टसाधनतया च साध्यत्वम् । आक्षेपादेव तेनोच्यते साध्यतया प्रतीयत इति; अदृष्टफले त्वियतः फलसाधनत्वमिति न्यायतोऽवधारणसम्भवादनुष्ठानमिति प्रपञ्चितं दीपशिखायाम् । शेषमप्रस्तुतं भाष्यव्याख्याक्षीणं च ।
चोदना पुनरारम्भः
अपूर्वाक्षेपसमाधानरूपमिदमाधिकरणम् । तेनापूर्व कृत्वेत्यस्य समाधानार्थ सत्पूर्वाधिकरणशेषभूतमिति न पृथगारब्धमिति न पृथक्सङ्गतिमपेक्षते । अतः पूर्वमाधेकरणं सशेषमुपोद्घातेन ।
End:
राद्धान्तस्तु-~
तस्यापूर्वत्वादेको हि विध्यन्तो ग्राह्यः । आकाङ्क्षाबलाद्धि परकीयग्रह इति विकल्पे नाप्यनेकाहे मानम् । जुहोतिशब्दोऽपि न विशेषलिङ्गं सर्वगामित्वात् । राष्ट्रभृत्स्वन्यत्रोपदेशोक्तिः पाठाभिप्राया सप्तमेऽप्युक्ता । न चैवमनितिकर्तव्यतया दर्वीहोमापूर्वाणामचोदनार्थता; सामान्यश्रुतस्मार्ताचारप्राप्तधमैरगत्या उपकारकल्पतस्तु.
For Private and Personal Use Only