________________
Shri Mahavir Jain Aradhana Kendra
3316
Beginning:
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
विघ्नध्वान्तानिवारणैकतराणिर्भक्तौघचिन्तामणिविद्याकाननगाहनैकसरणिर्मच्चित्तभूषामणिः । भूयादेष कुतर्ककर्कशधियां हर्ताहर्ता तदा मोहानां सुधियां सदैव स पिता कात्यायनीशात्मजः ॥
बृन्दाविपिनविहारी गिरिवरधारी स्वकीयसुखकारी । मच्चित्तरङ्गचारी भूयान्नृत्यप्रियः कृष्णः ( शौरिः ) || शश्वद्बोधतरङ्गा विद्यागङ्गोत्तमाङ्गे (ङ) यस्य । श्रीरुद्रदेवसंज्ञं जनकं वन्दे सदा स्फूर्त्यै ॥
आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ।
अत्र " सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्; वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति" इत्याद्यर्थवादा धर्माधर्मयोः प्रमाणं न वेति सन्देहः । अत्र लक्षणसङ्गतिः धर्माधर्मप्रमाणनिरूपणात्सुलभैव । यस्यापि मते वेदप्रामाण्यनिरूपणमध्यायार्थस्तस्याप्यस्मिन्नाधिकरणे तावत्सङ्गतिस्सुलभैव ।
For the end, see under the next uumber.
No. 4446. मीमांसाकौस्तुभः.
MIMĀMSĀKAUSTUBHAH.
Substance, palm-leaf. Size, 16 x 14 inches. Pages, 70. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, not fresh.
Contains 13 Sūtras of the 3rd Pada of the 3rd Adhyaya. See under the previous number for the beginning.
For Private and Personal Use Only