________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3006
.
A DESCRIPTIVE CATALOGUE OF
Beginning : वक्ताणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा दशाननसमागमनभ्रमेण । भूयोऽपि शैलपरिवृत्तिभयेन गाढमालिङ्गिता गिरिजया गिरिशः पुनातु ॥
अधीत्य जयदेवेन हरिमिश्रापितृव्यतः । तत्त्वचिन्तामणेरिद्ध मा(आ)लोकोऽयं प्रकाश्यते ॥
प्रसङ्गान्मङ्गलस्य समाप्तिहेतुतां व्यवस्थापयितुं भूमिकामारचयति-- इहेति । इह लोके । खलु वाक्यालङ्कारे । एकवाक्यता(या) अविप्र(तिप)त्तिः । अतो भ्रममूलकताशङ्का निराकृता; विचाराङ्गसंशयबीजभूतविप्रतिपत्त्यदर्शनात्तन्न्यूनता च परिहृता ।
यदि चाग्निहोत्रस्यापि धर्मेण पापमपनुद(ती)ति मानान्तरन्त्वा(रात्पा)पक्षयजनकत्वं ज्ञायते तदा वाक्यभेदः ; अग्निहोत्रानुरोधेन विनिपातपदस्य पापसामान्यपरत्वात् , मङ्गलानुरोधेन च प्रारब्धे प्रतिबन्धकविघ्नपरत्वादिति भावः ।
अथशब्द इति । यद्यप्यथशब्दो ग्रन्थान्तर्गतः कथं मङ्गलं तम्प तज्जन्यत्वात् , तथापि तदुच्चारणहेतुभूतज्ञानं तत्र मङ्गलं तद्बहिर्भावेन वा ग्रन्थ इति वदन्ति ।
End : ___ तथाच मुरारिभट्टनययोर्ज्ञानस्य ज्ञेयत्वानियमेन अज्ञायमानज्ञानव्यक्तिविशेषप्रामाण्ये तदाश्रयीभूतज्ञानग्राहकसामग्र्यप्रसिद्ध्या तद्राह्यत्वसाध्याभावनांशतो बाधापत्त्या पक्षसङ्कोचकस्यावश्यकतया तत एव प्रक्रतेऽपि सामञ्जस्यात् किम्.
For Private and Personal Use Only