SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2952 A DESCRIPTIVE CATALOGUE OF Parichodas 1 to 9 complete; 10th incomplete. This is a commentary ky Kāīcinātha on the Ratirahasya of Kokkoka. Beginning : नत्वा महागणपतिं कोकोककृतस्य रतिरहस्यस्य । क्रियते दर्शितभावा काञ्चीनाथेन दीपिका सुधिया ।। इह हि काव्यनाटकालङ्कारप्रभृतिसकलकलाकलापनिष्णातो वाग्विलासजितबृहस्पतिः कोक्कोकनामा कविः नन्दिकेश्वरश्वेतकेतुपाञ्चालदत्तकपारायणसुवर्णनाभघोटकमुखगोनर्दगौणीरापुत्रकूचिमारवात्स्यायनप्रभृतिभिः कृतेभ्यश्शास्त्रेभ्यस्सारमादाय रतिरहस्याख्यं ग्रन्थमारभमाणः प्रस्तुतदेवतापूजया निर्विघ्नमिच्छन् मकरध्वजं स्तौति । प्रजापतिः प्रजास्सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गसाधनं शास्त्रमध्यायानां शतसहस्र()णित्र(त)त्रो. वाच । तस्यैकदेशं स्वायंभुवो मनुः धर्माधिकारिकं पृथक् चकार । बृहस्पतिराधिकारिकं (चक्रे । ततो) भगवतस्सुरासुरमौलिघटितकिरीटमणिप्रभादीप्तपादारविन्दस्य पार्वतीपतेरनुचरेण नन्दिकेश्वरेण सहस्रेणाध्यायानां पृथक्कामशास्त्रं प्रोक्तम् । तदेव तु प(ञ्चभिः) अध्या यशतैरौ दालकिः श्वेतकेतुः सं(चि क्षेप । [तस्तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगि(क)कन्यासंप्रयोगभार्याधिकारिकपारदारिकवैधि (शि )कोपसर्जनै (निषदि. कै): सपअ(सप्तभिर धिकरणैर्भा(|)भ्रव्यः पाञ्चालश्चकार । तस्य षष्ठं वैधि (शि)कमधिकरणं पाटलीपुत्रिकाणां गणिका(नां नि)योगात् दत्तकः पृथक्चकार ; तत्संप्रयोगात् पारायणस्साधारण(णं)च, सुवर्णनाभिस्सांप्रयोगिकं, घोटमुखः कन्यासंप्रयुक्त(क), गोनर्दीयो भार्याधिकारिकं, गोणिकापुत्रः पारदारिकं, कूचिमार औपनिषदिकम् । वात्स्यायनश्च सप्तभिरधिकरणैस्सर्व प्रोवाच । एवमनेकैराचार्यैस्तच्छास्त्रं बाभ्रव्योक्तं खण्डशः प्रणीतमुत्कल्यमभवत् । एवमेते लोकहिताय कृतवन्तः । तथाहि महतां प्रवृत्तिर्लो. कहितायैव यथा पञ्चानां भूतानां प्रवृत्तिः । प्रस्तुतिभाजो विश्वस्य स्त्रीपुं For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy