________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
3191
Beginning:
यस्य श्रीनखकान्तिनाकसरितश्रूडायतेऽविद्वयं सेवानम्रसुरेन्द्रवज्ज्रमकुटीमाला मरालायते । पश्यन्निर्जरयोषिदम्बकततिर्मीनप्रपञ्चायते क्षोणीशाञ्जलयः पयोजमुकुलन्त्यव्यात्स नारायणः || प्रकृतपक्षतावच्छेदकावच्छिन्नविशेप्यतानिरूपितसाध्यतावच्छेदकावच्छि नप्रकारताशाल्यनुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदिका सती पक्षतावच्छेदकविशिष्ट (पक्ष) ग्रहत्वाव्यापकसाध्यतावच्छेदकविशिष्ट (साध्य ) महत्वाव्यापक पक्षसाध्यवैशिष्टचग्रहत्वव्यापकप्रतिबध्यतानिरूपितप्रतिच
न्धकतावच्छेदकविषयत्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदिका यादृशविशिष्टविषयता तादृशविशिष्टत्वं सत्प्रतिपक्षत्वमित्युक्तम् ।
एवञ्च वह्न्यभाववह्न्यभावव्याप्यव्याप्योभयवर्द्धदे ऽतिव्याप्तिरव तरत्येव ; उक्तान्यतरसम्बन्धेन प्रतिबन्धकत्वजनकत्वयोरुक्तोभयवद्धुदत्वावच्छिन्नविषयताव्यापकत्वात् । अत्र केचित् -- विशिष्टान्तराघटितत्वविशेषणेनोभयवद्धदवारणसंभवः । यत्तु विशिष्टान्तराघटितत्वं यदि स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्नमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नाघटितत्वरूपं, तदा निरुक्तोभयवद्धदवारणसम्भवेऽपि बाधघटितसत्प्रतिपक्षेऽव्याप्तिवारणाय प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तित्ववज्जनकतानतिरिक्तवृत्तित्वस्यापि निवेशनीयतया उक्तातिप्रसङ्गो दुर्वारः ।
For Private and Personal Use Only
End:
तथा च स्वविशिष्टरूपावच्छिन्नाविषयत्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदिका यद्रूपावच्छिन्नविषयता तद्रूपावच्छिन्नत्वमिति लक्षणघटकदलद्वयपर्यन्तार्थः । रूपे स्ववैशिष्ट्यम् – स्वसमानाधिकरणेत्यादि
-