SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2938 A DESCRIPTIVE CATALOGUE OF भार्गव उवाच शतलक्षश्लोकामतं नीतिशास्त्रमथोक्तवान् ॥ स्वयम्भूभगवान् लोकहितार्थ सङ्ग्रहेण वै । तत्सारं तु वसिष्ठाद्यैरस्माभिवृद्धिहेतवे । अल्पायुर्भूभृदाद्यर्थ सप्तिं तर्कविस्तृतम् । क्रियैकदेशबोधीनि शास्त्राण्यन्यानि सन्ति हि ।। सर्वोपजीवकं लोकस्थितिकृन्नीतिशास्त्रकम् । धर्मार्थकाममूलं हि स्मृतं मोक्षप्रदं यतः ।। कुसीदकृषिवाणिज्यगोरक्षा वार्तयोच्यते । सम्पन्नो वार्तया साधु न वृत्तेर्भयमृच्छति ।। दमो दण्ड इति ख्यातस्तस्माद्दण्डो महीपतिः ।। तस्य नीतिर्दण्डनीतिर्नयनान्नीतिरुच्यते ।। आन्वीक्षिक्यात्मविज्ञानाद्धर्षकौशो(शोकौ) व्युदस्यति । उभौ लोकाववाप्नोति त्रय्यान्तिष्ठन्यथाविधि || आनृशंस्यं परो धर्मस्सर्वप्राणभृतां यतः । तस्माद्राजानृशंस्येन पालयेत्कृपणं जनम् ।। न हि स्वसुखमन्विच्छन् पीडयेत्कृपणं जनम् । कृपणः पीड्यमानस्स्वमृत्युना हन्ति पार्थिवम् ।। पुत्रवत्यालिता भृत्या(:) समये शत्रुताङ्गतौ(ताः) । न दोषस्स्यात्प्रयत्नस्य भागधेयं स्वकं हि तत् ॥ दृष्ट्वा सुविपुलं कर्म तपस्तमा(प्ता)दिवं व्रजेत् । उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy