SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 2935 स्वासम्भावनापि तेनैवावश्यनिराकरणीयेति स्वस्थचित्ततयेष्टार्थसिद्धिः । एवं नू(न्यू)नारम्भसामान्यमाने तदुचितेष्टदेवतापूजानन्तरं सम्प्रदायप्रवतकपूजोपपन्नेति शुक्रबृहस्पत्योर्ग्रहणम् । तयोरसुरामरगुरुत्वविशेषणमर्थशास्त्रनिपुणमन्त्यूधीनानामनश्वरप्र(प)दोत्कर्षप्राप्तिसूचनार्थम् । एवं शास्त्रारम्भे शिष्टाचारसिद्धाभिमतोचितदेवतापूजानन्तरं राजनीतिशास्त्रस्यारभ्यत्वात्प्रजापालनादिकृत(कर्तृ)नृपाख्यदेवतापूजा कार्येति तां करोति-- यस्य प्रभावाद्भुवनं शाश्वते पथि तिष्ठति । देवस्स जयति श्रीमान् दण्डधारो महीपतिः ॥ १ ॥ तस्मादभिद्धर(भव)त्येष सर्वभूतानि तेजसी(से)ति लोके दृष्टादृष्टविघ्नोपशमहेतुत्वादपि शास्त्रादावस्य पूज्यत्वमुचितम् । यस्य प्रभावात् प्रभुशक्तिराविर्भवन्ती । भुवनं चतुर्वर्णाश्रमलक्षणो लोकः । शाश्वते पथि स्वस्मिन्स्वस्मिन्मार्गे स्वधर्मकर्माभिरतस्तिष्ठति अभ्युदयनिश्श्रेयसप्राप्तिं नातिक्रामतीत्यर्थः । देवस्स लोकपालांशत्वात्पूज्यः । दण्डधारः दुष्टेषु शिक्षा धारयिता । महीपतिः भूमण्डलनायकः । अत एव सर्वोत्कृष्टो वर्ततं इति वाक्यार्थः ॥ Colophon: इतीन्द्रजयः प्रथमप्रकरणम् ॥ इति श्रीमद्वरदराजभट्टयज्वना विरचिते कामन्दकव्याख्याने नयप्र. काशे प्रथमसर्गस्थं प्रथमप्रकरणम् ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy