________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THR SANSKRIT MANUSCRIPTS.
3149
Beginning:
संसर्गाभावश्चान्योन्याभावश्च नार्थः । तत्रान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबलसिद्धम् ; नीलघटवति न घटः, नीलघटो न घट इत्यव्यवहारात् , इह पीतघटवति न नीलघटः, पीतघटो न नीलघट इति व्यवहाराच्च । प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ । तेन यत्पदोपस्थापितस्य प्रतियोगिनोऽनुयोगिन्याधाराधेयभावसम्बन्धेनान्वयः , तत्र संसर्गामावस्यापि तथा । यथा-पचति चैत्रः, न पचति चैत्रः; चैत्रस्येदं, नेदं चैत्रस्य-इत्यादि । End:
अन्योन्याभावबोधने नमो न सामर्थ्यम् । तेन न पचति, न राज्ञ इत्यादी कृत्यादेरन्योन्याभावः, भूतलं(ले) न घट इत्यादौ घटादेस्संसर्गाभावो न प्रतीयत इत्याहुः ॥ Colophon:
इति श्रीमद्विद्वत्कुलतिलकश्रीमदद्वैतविद्याचार्यश्रीमच्छिरोमणिभट्टा. चार्यप्रणीतश्रीमत्समस्तपण्डितकुलतिलकश्लाघनीययुक्तिमुक्ताफलगुम्फितो नशिरोमणिः ॥
No. 4253. नञ्वादशिरोमणिः (नविवेकः).
NANVĀDASIROMANIH (NAN VIVEK AH). Pages, 6. Lines, 6 on a page.
Begins on fol. 5a of the MS. described under No. 3916.
Same work as the above with a difference in the colophon only. Colophon:
श्रीतार्किकशिरोमणिभट्टाचार्यकृतौ नविवेकस्समाप्तः ॥
294
For Private and Personal Use Only