________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
3129
A commentary on Sasadhara's Nyayasastrarthadipa: by Dharmarājādhvarindra of Kaundinya-gotra.
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
Beginning:
वटवटपिसमीपे बोधमुद्रां दधानो जयति जगति भूमा कोऽपि सोमावतंसः । विगतकलुषजाले भक्तचित्तालबाले सुदृढमिव निधित्सुश्चिन्मयान्यङ्कराणि ॥
अध्यासीनोऽग्रहारं मखिकुलमहितं कण्डमाणिक्कसंज्ञं व्याकुर्वन् यः प्रकाशं समतनुत मणेः पतिटीकाविभागम् । सोऽयं कौण्डिन्य गोत्रः शशधरकलितन्यायसिद्धान्तदीपं गम्भीरं युक्तिजालैर्विशदयति तथा धर्मराजो बुधेन्द्रः || भवन्ति दूषणानीह पूर्वटीकासु यद्यपि । तथापि न विलिख्यन्ते ग्रन्थगौरवभीतितः ||
Colophon :
निर्विघ्नपरिसमाप्त्यर्थं मङ्गलमाचरन् चिकीर्षितं प्रतिजानीते - ध्वं - सितेति । परेषां मीमांसकानां सिद्धान्तरूपान्धकारो ध्वंसितो येनेति क्रियाविशेषणम् । गौतमेनाङ्गीकृतो यो मुख्यसिद्धान्तः तम् । स्वकीर्त्यनुवृत्त्यर्थं खनाम दर्शयति - शशधरेति । प्रकाशयति सम्यक् प्रतिपादयतीत्यर्थः ।
End:
न च वहिमानित्यादिव्यक्तिसाध्यकानुमितौ पक्षीयसाध्यस्य प्रागन - वगमेन तद्विशिष्टानुमितौ व्यभिचारः; सामान्यप्रत्यासत्त्या सर्वोपसंहारेण व्याप्तिग्रह वेळायां पक्षीयसाध्यव्यक्तेरप्यनवगतत्वेन दोषाभावात् । तदेतदाहइति संक्षेप इति.
इति धर्मराजविरचिते न्यायरत्ने निर्विकल्पकवादः ||
For Private and Personal Use Only
•