________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3115
पदुपक्रमञ्जनि(नु)ष्मद्वर्गो यदुपज्ञमखिल आम्नायः । तमजमनन्तमुपासे वृषाकपायीमनोरमं देवम् ।। ऐश्वर्येहावशैनित्यं मनोवागादिभिः सुरैः । वन्दनीयां भजे देवी खाभीष्टफलसिद्धये ।। प्रकरणमुदितं गौतममुनिमतमनुसृत्य वरदराजेन ।
विवृणोमि हरिहरोऽहं भारद्वाजो नृसिंहसूरिसुतः ।। इह खलु वरदराजो नाम कश्चिद्विपश्चित् अक्षपादपक्षिलादिभिरनेकधा लक्षणपरीक्षाभ्यां प्रपञ्चितपदार्थजातं बालिशानुजिघृक्षया कारिकानिबन्धेन तार्किकरक्षाख्यग्रन्थेन सङ्गृह्य तार्किकरक्षां खयमेव विवरीतुमारभमाणः प्रारिप्सितस्य ग्रन्थस्य परिपन्थि प्रत्यूहविघाताय शिष्टाचारपरिप्राप्तमिष्टदेवतानमस्काररूपं मङ्गलमादा निबध्नाति --- प्रथमश्लोकेन नमामि परमात्मानमित्यादिना । परमात्मानं नमामीति संबन्धः । परम उत्कृष्टश्चासौ आत्मा चेति कर्मधारये परमात्मशब्देन ईश्वर उच्यते ।
End :
___ तच्चानुगतरूपादि । तन्तुपटोत्पत्त्यनन्तरं समवायिकारणाभावलक्षणप्रतिबन्धकापगमे सति अविलम्बेन कार्यजनकत्वमप्यस्त्येवेति न(नाति)व्याप्तिः। ततश्चैकाश्रितकार्य प्रति निमित्तत्वानधिकरणत्वे सत्यसमवायिकारणवृत्तिगुणत्वापरजातिमत्त्व (त्त्वम)समवायिकारणत्वम् । नवेत्यादि । असमवायिकारणत्वानधिकरणत्वे सति निमित्तकारणवृत्तिगुणत्वापरजातिमत्त्वं निमित्तकारणत्वं नाम । संयोगेत्यादि । उष्णस्पर्शः पाकजे निमित्तम्
For Private and Personal Use Only