SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 2981 Beginning : यस्य प्रभावाद्भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ १ ॥ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरखती ॥ १ ॥ अभिप्रेतार्थसिद्ध्यर्थ पूजितो यस्सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २ ॥ चेतश्चक्रेऽखिलाज्ञानव्याप्तिसामर्थ्यधा(हा)रिणा(णे)। नमो विनिर्मितानन्तभवध्वंसाय शम्भवे ॥ ३ ॥ व्याख्या सुखावबोधार्था स्पष्टा सूक्ता सुसङ्गता । कामन्दकिप्रणीतस्य नीतिशास्त्रस्य लिख्यते ॥ ४ ॥ शास्त्रकारः स्वशास्त्रादौ नमस्यति नमस्कारं करोति । किमर्थमिति चेन्नमस्यनमस्कारात्पुण्यमुत्पद्यते । तदुत्पद्यमानं विरोधादपुण्यं निवर्तयति । तन्निवृत्तौ तु कार्याणां विघ्नादीनामभावं मन्यमानस्सकलार्थशास्त्रपारावारदृश्वा कामन्दकिराह । स देवो महीपतिर्जयति । यस्य महीपतेः । प्रभावात् प्रभुशक्तेः । कोशदण्डफलं हि प्रभुशक्तिः । भुवनं जगत् । इदम् । शाश्वते नित्ये । पथि स्वर्गमोक्षगामिनि मार्गे । तिष्ठति (अ)वस्थानं करोति । देव इति—दीव्यतीति देवः । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति धातूक्तसमस्तगुणसम्पन्नत्वात् महीपतिरेव देवः । तथा चोक्तं स्मृतिकारैः वंशे विशालवंश्यानामृषीणामिव भूयसाम् । अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥ २ ॥ For Private and Personal Use Only
SR No.020193
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 08
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1910
Total Pages313
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy