________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
2981
Beginning :
यस्य प्रभावाद्भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ १ ॥ चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरखती ॥ १ ॥ अभिप्रेतार्थसिद्ध्यर्थ पूजितो यस्सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ २ ॥ चेतश्चक्रेऽखिलाज्ञानव्याप्तिसामर्थ्यधा(हा)रिणा(णे)। नमो विनिर्मितानन्तभवध्वंसाय शम्भवे ॥ ३ ॥ व्याख्या सुखावबोधार्था स्पष्टा सूक्ता सुसङ्गता ।
कामन्दकिप्रणीतस्य नीतिशास्त्रस्य लिख्यते ॥ ४ ॥ शास्त्रकारः स्वशास्त्रादौ नमस्यति नमस्कारं करोति । किमर्थमिति चेन्नमस्यनमस्कारात्पुण्यमुत्पद्यते । तदुत्पद्यमानं विरोधादपुण्यं निवर्तयति । तन्निवृत्तौ तु कार्याणां विघ्नादीनामभावं मन्यमानस्सकलार्थशास्त्रपारावारदृश्वा कामन्दकिराह । स देवो महीपतिर्जयति । यस्य महीपतेः । प्रभावात् प्रभुशक्तेः । कोशदण्डफलं हि प्रभुशक्तिः । भुवनं जगत् । इदम् । शाश्वते नित्ये । पथि स्वर्गमोक्षगामिनि मार्गे । तिष्ठति (अ)वस्थानं करोति । देव इति—दीव्यतीति देवः । दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति धातूक्तसमस्तगुणसम्पन्नत्वात् महीपतिरेव देवः । तथा चोक्तं स्मृतिकारैः
वंशे विशालवंश्यानामृषीणामिव भूयसाम् । अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥ २ ॥
For Private and Personal Use Only