________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3109
Beginning:
खैर हरेः पुलकितोपवनम्र(द्रु)माणि हर्षोदयस्तिमितवन्यविहङ्गमानि । अन्योन्यवैरविगमोत्सुकसर्वसत्त्वान्याकर्णयानि मुरलीकलशिञ्जितानि ।। आलोलकुन्तलमरालकलापचूडमानर्तितश्रुमुखरीकृतवंशनालम् । वस्तु त्रिभङ्गललितं मयि सन्निधत्तां व्यत्यस्तपादकमलं व्रजभागधेयम् ॥
जयति श्रीबालधन्विकुलं तदमलं भुवि । कृपा निरुपधिर्यस्मिन् यतीन्दोनित्यमेधते ॥ तत्र रत्नाकर इव प्रादुरासीत्कलानिधिः ।
श्रीमान् सौम्यनृसिंहार्यस्सन्मार्गद्योतनोद्यतः ॥ वेदान्तार्थविचारनिश्चितमतेस्तस्मादभूत्तकृपाभूमप्राप्तसमस्तशास्त्रहृदयः श्रीशैलसूरिः कृती । यो गोविन्दपदारविन्दयुगलीन्यस्ताखिलात्मस्थितिः तत्कल्याणगुणानुभूत्युदितया तत्सेवया निर्वृतः ।। प्रौढेनाप्रतिमेन वीरचिकदेवेन्द्रेण बाल्यात्प्रभृत्यैकान्त्यान्निजानिर्विशेषमनघां वृद्धि परां प्रापितः। सोऽयं न्यायपयोनिधिं निरवधिं निर्मथ्य निष्पादितां
भक्तचा तर्कसुधां समर्पयति तत्प्रेम्णा जुषध्वं बुधाः ।। इह खलु--
प्रयोगहेतुभूतार्थतत्त्वज्ञानसमुद्भवः ।
शब्दः प्रमाणमित्येतल्लक्षणं लक्ष्यते मणौ ॥ तदर्थश्च प्रयुज्यत इति प्रयोगो वाक्यं तद्धेतुभूतं यदर्थतत्त्वज्ञानं तजन्यत्वम् । तादृशश्च शब्दो लोके घटमानयेत्याद्यविसंवादि वाक्यम् ।
For Private and Personal Use Only