________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3107
No 4188. तर्कसारः.
TARKASARAH. Substance, palm-leaf. Size, 17 x 18 inches Pagres, 270. Lines, 5
on a page Character, Telugu Condition, injured. Appearance, ok.
The leaves are neither numbered nor arranged in proper order; consequently the extent of the work cannot be quite correctly determined.
Breaks off in Sabdaparicchöda.
A commentary on the Tarkabhisā prakasa of i'enunbhatta : by Kõinpeila Venkatabudha Beginning :
आलिङ्गिताद्रितनयाङ्गमनङ्गलीलामूलाङ्करायिनलसत्पुलकप्रपञ्चम् । वेलातिगाश्रितकृपालतिकालवालं पाल्यान्महः किमपि नः परदेवताख्यम् ।। कोम्पेल्लवेङ्कटबुधः प्रथितानुभावान्वाणीविनायकगुरून्प्रणिपत्य मूना । श्रीचन्नुभट्टकृतिभासुरतर्कभाषाभावं प्रकाशयति बालविबोधहेतोः ।। क्वाक्षाभिवर्त्म विदुषामपि दुर्विबोधं काहं बुधास्त्रिचतुराणि पदानि जानन् । कुर्वे तथापि सहसा ननु तर्कसारं सन्तो हसन्त्वयमनुग्रह एव नूनम् । ___ इह खलु धर्मार्थकाममोक्षाणां चतुर्णा मध्ये धर्मादीनां त्रयाणां क्षयिष्णुत्वेन सातिशयत्वेन च हेयत्वान्मोक्षस्यैकस्योपादेयत्वात्तस्य च श्रवणमनननिदिध्यासनोत्तरकालीनेतरभिन्नत्वप्रकारकात्मसाक्षा(त्का)रसाध्यत्वाद्वेदान्तवाक्यैः श्रुतात्मस्वरूपस्य पुरुषस्य मननोपयोगितया आत्मतदितरपदार्थस्वरूपप्रतिपादिकामान्वीक्षिकी प्रणिनीषुर्भगवान् सूत्रकारः प्रेक्षावतां प्रवृत्तिसिद्धये विषयप्रयोजनादिसंबन्धमादावसूत्रयत् --- प्रमाणप्रमेयसंशय
. . . . . . . तत्त्वज्ञानान्निःश्रेयसाधिगमः- इति । तत्त्वं ज्ञायते अनेनेति तत्त्वज्ञानं शास्त्रम् ; तस्मान्मोक्षप्राप्तिर्भवतीत्यर्थः । End:
भेदान्वये तु भिन्नविभक्तिकपदसमभिव्याहाराभावात् निराकाङ्क्ष . . . . . . सरूपाकाङ्क्षाया आत्मनिष्ठत्वेन अर्थेषु पदेष
For Private and Personal Use Only