________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8090
A DESCRIPTIVE CATALOGUE OF
ग्रन्थारम्भे विघ्नोपशमाय विहितं मङ्गलमन्तेवासिशिक्षायै निबध्ना ति-निधायेति । ___ अत्र मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिसाधनतेति प्राञ्चः । तत्र यद्यपि मङ्गलस्य समाप्तिसाधनता न प्रत्यक्षप्रमाणगम्या ; कादम्बर्यादौ अन्वयतो नास्तिकग्रन्थादौ व्यतिरेकतो व्यभिचारेण कारणत्वप्रत्यक्षजनने प्रत्यक्षप्रमाणसहकारिणः स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वे अग्रिमक्षणे यत्सत्त्वं यदभावे यदभाव इति नियतान्वयव्यतिरेकसहचारग्रहस्यासम्भवात् ।
End:
विशेषेणेति । सर्वेषां प्रमेयान्तर्भावेऽपि प्रमाणादीनां विशेषरूपेणाभिधान विचारेऽभ्यर्हितत्वादिति स्फुटमाकर इति ॥ Colophon: _इति श्रीगाढेगोलोपाख्यमुकुन्दमविरचिता तर्कसङ्ग्रहचन्द्रिका समाप्ता ॥
श्रीमन्मनोहरोपाख्यविश्वेश्वरगुरोः परम् ।
चरणौ शरणीकृत्य चन्द्रिकेयं समापिता ॥ विबुधा न मुधावमाननीया मनधी(नी) या कृतिरल्पमेधसोऽपि । हृदयेऽपि घुणाक्षरापि वाणी ललिता किन्न विराजते कवीनाम् ।। दस्यवो मयि कृपालुतयैतत्पुस्तकं विलिखितं बहुयत्नात् ।। कर्म मा कुरुत तन्मुषिधातोर्वो नमोऽस्तु शिरसा बहुकृत्वः ॥
No. 4154. तर्कसङ्ग्रहदीपिका.
TARKASANGRAHADIPIKĀ. Substance, palm-leaf. Size, 143 x 14 inches. Pages, 64. Lines, 5
on a page. Character, Telugu. Condition, good. Appearance, new.
This is a commentary on Tarkasangraha by Annam-bhatta himself.
For Private and Personal Use Only