________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3065
रणाङ्कणमनासज्य वीरवल्लीभवाङ्कुरः । मैं खलु श्लाघते तेन कुर्मश्शास्त्ररणे रसम् ।। पृच्छेयुर्यदि केचिदत्र मुखरा भूयस्थितेष्वाकरग्रन्थेष्वस्य फलं किमस्ति तदमूनेते प्रतिब्रूमहे । नैवास्ते किमपि प्रयोजनमनालोके त्वथालोक्यते रक्षाबन्धपुरस्सरेण मनसैवेदं समाधास्यते ।। स्कन्दः क्रौञ्चविदारणे कलशभूरम्भोधिनिश्शोषणे कृष्णः कालियशासने दिनमणिर्यद्वत्तमोविद्रवे । प्रावर्तिष्ट गरिष्ठदीधितिवचोविध्वंसनेऽसौ तथा
नानातर्कतरङ्गधौतवचनन्यासेन कृष्णः कृती ॥ श्रीगोविन्देति । पदाम्भोजेत्यत्र परिणामः, नखचन्द्र इत्यत्र रूपकं, तमस्यन्धेत्यत्रातिशयोक्तिः, दुरवगाहशास्त्रार्थसंघातस्यान्धतमसत्वेन रूपणात्, पूर्वोक्तप्रीयमाणवाक्यपर्यालोचनया वाक्यान्तरप्रतिपादनरूपस्य व्याख्यानस्य सञ्चारत्वेन रूपणाञ्च तेषाञ्च त्रयाणां समप्राधान्येन गोविन्दविषयकप्रीतिभावाङ्गत्वेनालङ्कारसंसृष्टिबोध्या । निगूढमिति । मणिदीधितौ सर्वतः प्रसृमरेष्वपि सवितृकिरणेषु सूक्ष्मागरेणुजालच्छायादिवत् स्फुटमप्रतीयमानतया निगूढं सिद्धान्तरहस्यार्थजातं यथा ईक्षणकौशलशिक्षया परो ग्राह्यते, तथा स्फुटार्थकविवरणविशेषणाय तादृशार्थजातं प्रकाश्यत इत्यर्थः । एतेन दीधित्तौ निगूढमिति आपाततो विरोधः परिहृतो भवति । स्वग्रन्थस्यासाधारणप्रयोजनञ्च दर्शितं भवतीति बोध्यम् ।
ओं नम इतीति । अत्र ओमिति विशेष्यम् । परमात्मन इत्यादिविशे. षणम् । ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्स्मृतः । समस्तव्यस्तं
For Private and Personal Use Only