________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3055
Beginning:
अथ पक्षताग्रन्थान्तर्गतसंशयपक्षताविचारः--
व्याप्त्यनन्तरं पक्षधर्मता निरूप्यत इति मूलम् । तत्र व्याप्तिपदस्य व्याप्तिखरूपनिरूपणार्थकतया व्याप्त्यनन्तरमित्यस्य व्याप्तिस्वरूपनिरूप. णध्वंसाधिकरणकालवृत्तीत्यर्थः । तस्य निरूप्यत इत्यत्र लक्षणादिप्रकारकप्रतिपत्त्यनुकूलव्यापाररूपनिपूर्वकरूपधात्वर्थनिरूपणे अभेदेनान्वयः ।
End:
सामानाधिकरण्यसम्बन्धनिवेशाच्च न पर्वतो वयभाववानिति ज्ञाने अतिव्याप्तिः । शेषपक्षताग्रन्थे कृष्णम्भट्टलिखिताधिकलेखने विशेषांशाभावाद्विस्तरभयादत्र तद्विचारो न लिखितः । तदनुमोदन्तु दयालवो विद्वांसः ॥
नित्याण्वादिक्रियातक्यों जीवेभ्यो भिन्न ईश्वरः । ज्ञानाद्यष्टगुण पायादपायात्तर्कजाद्धि नः ।। न्यायाम्भोधिनिमज्जनेक्षणमुखायासोद्धृताच्छम्पुरत्तर्कत्वेप्सितरम्यरत्नजलसन्मालार्पिता विष्णवे । श्रीशायापि निपातिता मतिमतां तर्कान्धकूपस्खलद्वीवाचामधिकण्ठमल्पमतिभिर्योद्धारणीया न हि ॥ कार्णभट्टादिकक्रोडग्रन्थक्रोडीकृतिः कृता । रघुनाथेनालसानां तच्छीघ्रोपस्थितीप्सया ॥ विशेषयन्तु मत्रोक्तान् विशेषान् तर्ककर्कशाः । आर्या मात्सर्यमुत्सायं दृष्ट्वैतज्जातविस्मयाः ।। न्यायाकूपारपारङ्गतमतितरणीन्मत्सरोद्रेकशून्यान् मान्यान्विज्ञापयामस्सविनयमिह यन्न्यायरत्नेऽवबद्धम् । तत्संशोध्यं परेषामुपकृतिविधये संप्रवृत्ता वयं(यत् ) तस्मादेवात्र धान्नि न निजधिषणाप्रौढिसन्दर्शनाय ।।
288-A
For Private and Personal Use Only