________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
पुत्रेषु सत्खपि कलत्रयुगेऽथ तस्य पुत्रौ जगत्रयविसुत्वरकीर्तिपूर्वी । जातौ प्रधा(प्रिया)वतितरां प्रथमप्रसूतौ नीती महोन्नतिमनरूपगुणौ विनीतौ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्यात्मजोऽभूदतुलप्रतापः साधारणो भूमिपतिर्वदान्यः । अभूतपूर्वी जगतीश्वराणामजीगणद्यो जगति स्वकीर्तिम् ॥ बन्धच्छिदाविरुदकीर्तिमिहान्वितार्थं
कृत्वा परत्र च तथैव विधातुमिच्छुः ।
कीनाशपाकचयबन्धविमोचनार्थ तीर्थं त्रयीकरविमुक्तमचीकरद्यः ॥
अस्यात्मजः श्रीमदनेन राजा नाम्ना च रूपेण च सङ्गतार्थः । रोषारुणे चक्षुषि यद्विपक्षे स्मर्तव्यरूपत्वमवाप कामः ॥
उदारशीलौ सुमनोविलासमनोज्ञबृन्दावनकेळिलोलौ । यशोदयावर्धितमङ्गळौ यौ श्रीरामकृष्णाविह सम्प्रतीतौ ॥
यच्छैशवानुकरणं न युवा न वृद्धः शक्नोति कर्तुमितरः कृ (श्रु) तसद्गुणोऽपि । दानान्निदानमखिलार्थजनार्थसिद्धिः
कीर्तिर्दिगन्तरचि (वित ) ता च यतस्तदीया | अप्रतिमल्लः पृथ्व्यां पृथ्वी मल्लस्तयोरभूज्येष्ठः । अपरो मान्धातृगुणैर्मान्धाता गीयते जगति || सोऽयं कृती विधाता रिपुकुलजेता तनोति मान्धाता | विद्वन्मुखेन मतिमान् सत्कृतिरत्नं महार्णवं नाम्ना ||
For Private and Personal Use Only
2627