________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUACRIPTS.
2621
चिदानन्दकलां वाणी वन्दे चन्द्रकलावतीम् । नैर्मल्यतारतम्येन बिम्बितां चित्र(त्त भित्तिषु ॥ अस्ति श्रीसङ्गमक्ष्मापः पृथ्वीतलपुरन्दरः । यत्कीर्तिमौक्तिकादर्श त्रैलोक्यं प्रतिबिम्बते । यश(:)क्ष(क्षी)राहुतीळत्य यत्प्रतापहुताशने । परे यान्ति पदं दिव्यं राजानो रणदीक्षिताः ॥ तूर्ण कर्णान्तिके प्राप्ते यत्प्रतापधनञ्जये। पुरो निधाय गाङ्गेयं खात्मा नं(सं)रक्ष(क्ष्य)ते परे(रैः) ।।
स्य मन्त्रिशिरोरत्नमस्ति मायन(ण)सायन(ण): । यः ख्याति रत्नगर्भेति यथार्थयति पार्थिव(वी)म् ॥ यत्कीर्ती जाह्नवीस्फूर्ती कीर्त्या विद्विषतामपि । कळिन्दनन्दिनीना(का)न्तिस्पर्धयेव प्रपद्यते । येन निर्म(मी)यते नित्यं धनरायोधनैरपि । श्रेयसे यशसे दानं विदुषां विद्विषामपि । न ध्यानं न क्रतुर्नार्चा न समाधिर्न वा जपः । मन्त्रसिद्धौ फलं यस्य मतिरेव महीयसी ।। तेन मायणपुत्रेण सांयुगे(सायणे)न मनीषिणा । ग्रन्थः कर्मविपाकाख्यः क्रियते करुणावता ॥ कृतानां विविधानाच ज्ञानतोऽज्ञानतोऽपि वा। इह रोगनिदानानां कर्मणां निष्कृति ब्रुवे ।। अयुक्तमिव मे भाति न त्वेतदुपपादनम् । (अनारब्धफलेषु स्यात् ) अना(समा)रब्धभवे(फले)षु वा ॥
For Private and Personal Use Only