________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
2875
Beginning:
अथ शूद्रपञ्चसंस्कारविधिक्रमः
श्रवणः रोहिण्यां वा शुभे दिवसे अन्यस्मिन् हरेर्दिवसे वा शूद्राणां पञ्चसंस्कारं कुर्यात् । अथाचार्यः प्रातः स्वकर्म निकृत्य(वर्त्य), पादौ प्रक्षाळय, आचम्य, गुरुपरम्परानुसन्धानपूर्वकं दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः शिष्यानाहूय, खस्य दक्षिणतो निधाय सता. म्बूलदक्षिणाहस्त उत्थाय, अक्षतान् गृहीत्वा ।
श्रीवैष्णवेभ्यस्सदसि स्थितेभ्यो नमोऽस्तु गुर्वाश्रयणोन्मुखानाम् । तापादिकं कर्म करिष्यमाणं शुभावहञ्चास्तु भवत्प्रसादात् ।। इति श्रीवैष्णवेभ्यस्ताम्बूलदक्षिणां समर्प्य.
End:
श्वेतमृत्स्नया पुण्ड्राण धारयित्वा, ततः केशवाद्यैर्मन्त्रैर्जुहुयात् । ततः शिष्यस्य नामकरणं कृत्वा, नामहोमं करिष्य इति सङ्कल्प्य, तन्नाम्ना चानौ जुहुयात् । ततो मन्त्रहोमं करिष्य इति सङ्कल्प्य, शरणागतिमन्त्रेण मन्त्ररत्नेन च जुहुयात् । ततः शिष्यस्य द्वयमुपदिश्य, ततो मूलमन्त्रं तारवर्जमुपदिश्य, ततश्चरमश्लोकमुपदिशेत् । यागहोमं करिष्य इति सङ्कल्प्य, द्वयेन मूलमन्त्रेण च जुहुयात् । श्रीभूमिनीळामन्त्रैस्सकृश्रुत्वा यागमुपदिशेत् । सर्वप्रायश्चित्तहोमं करिष्य इति सङ्कल्प्य, समस्तपरिवाराय श्रीमते नारायणाय नम इति प्रायश्चित्ताहुतिं कृत्वामि परिषिच्य, ब्रह्मोद्वासनं कृत्वा, उपस्थाय, आवाहितान् देवान् उद्दास्य तन्त्रशेषं समापयेत् ॥ Colophon:
इति शूद्रपञ्चसंस्कारविधिस्समाप्तः ॥
For Private and Personal Use Only