________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TIIE SANSKRIT MANUSCRIPTS.
2873
मूलमन्त्रेण पञ्चविंशत्यभ्यस्तेन प्राणानायम्य, श्रीगोविन्देत्याद्यस्यां शुभतिथौ श्रीभगवदाज्ञया श्रीमन्नारायणप्रीत्यर्थमादौ विष्वक्सेनाराधनं करिष्ये इति सङ्कल्प्य, तण्डुलोपि (परि द्वा दी प्राङ्मुखौ निधाय तत्र विष्वक्सेनं सपरिवारमावाहयामि । End:
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ इति चरमश्लोकच उपदिश्य समाराधनञ्चोपदिशेत् । ततः प्राणानायम्य, प्रायश्चित्तहामं होष्यामीति सङ्कल्प्य, केशवाय नम इत्यादिक्रमेण दामोदराय नम इत्यन्तं हुत्वा, प्राणानायम्य, पूर्णाहुतिं करिष्य इति सङ्कल्प्य, सचि(क्)चन्दनं पुष्पं जातीशलाटुं नाळिकेरशुषञ्च निधाय, आज्येनापूर्य, सुवेण सञ्छाद्य, समस्तपरिवाराय श्रीमते नारायणाय नम इति हुत्वा, अग्निं पूर्ववत्परिषिच्य, विष्णुब्रह्मोद्दासनश्च कृत्वा, आवाहितदेवता उदास्य ---
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगडिताय कृष्णाय गोविन्दाय नमो नमः ॥ इति सविष्णुमग्निमुपस्थायाचामेत् । ततः शिष्य आचार्य वस्त्रभूपादिभिस्तोषयित्वा ब्राह्मणान् परितोषयेत् ॥ Colophon:
इति सुदर्शनपाञ्चजन्याङ्कनप्रयोगः ॥
___No. 3814. शूद्रपञ्चसंस्कारप्रयोगः.
SÜDRAPAÑCASA ÁSKĀRAPRAYOGAH. Pages, 5. Lines, 6 on a page.
Begins on tul. 41a of the MS. described under No 3533. Similar in character to the above. Complete.
For Private and Personal Use Only