________________
Shri Mahavir Jain Aradhana Kendra
2860
End :
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
पित्र्ये रौद्रे तथा स्यात् क्रमविधिविहिते मार्जनप्रोक्षणादौ यद्यत्प्राचीन सूत्रं यदपि तदितरत् यच्च तीर्थ निपीतम् ॥ पश्चाद्वैहायसस्य प्रथमबलिमतो वायसस्याग्रभागे श्वभ्यां तस्याग्रभागे बलिमथ निविशेदत्र पादात्मशुद्धिः । [] मदिर्दर्शन वेदसुखकरमतच्चा(श्रा) न्द्रमत्रोपवासः स्याद्देवे पित्र्यभूतद्वययजनविधौ पश्चिमस्थं हविः स्यात् ॥ मध्यादुद्धृत्य भागान्मनुजयजनमित्यग्रभागेऽग्रदानं कृत्वा गोदोहकालक्षपणविधिबलात् तत्र लब्धातिथिभ्यः । दद्याल्लक्ष्मीविशिष्टस्वदितमपि हविर्यज्ञशिष्टान्नयुक्तं कृत्वा पाद्यासनायैर्विधिवदपचितिं कल्पयित्वा यथार्हम् ॥
सायं रौद्रान्तमन्नाद्यदि हितमशनं यद्यथा तत्तथा स्यात् नक्तञ्चामेन तोयाद्यदि मनुजपतस्तच रौद्रान्तमाहुः | केचित्त्वामेन तोयान्मनुजपकरणैष्षङ्घ्रिरेवाद्यमन्त्रैः नक्तं स्यात्सायमेव त्वनशननियत श्राद्ध भोक्तुर्जपः स्यात् ॥ नेत्रेन्दू नयनं युगं शशिविधू चन्द्रावतारौ शशी चन्द्रचन्द्रशशीन्दवोऽत्र गणिता धर्मादिकास्सेचने । तद्देवेन धनं क्रमात्पितृमखे चन्द्रश्च भूते शशी मर्त्येन्दुश्च तथा गृहे हुतवहे पूर्वाहुती (ति) वीक्षणम् ॥ इत्थं व्यासपराशरादिमुनिभिस्सिद्धान्ततार्थोऽप्ययं श्रीमल्लक्ष्मणयोगियामुनमुखैर्नाथादिभिर्नन्दितः । तत्सर्वं त्ववलोक्य तत्करुणया तद्वैश्वदेवक्रमः सन्मोदाय च वेङ्कटेशकविना प्रोक्तोऽभवद्धीमता । कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
For Private and Personal Use Only