________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
2761
No. 3671. पञ्चसौदर्शनीप्रायश्चित्तप्रयोगः. PAÑCASAUDARSANÍPRÁYAŚCITTAPRAYOGAụ. Pages, 9. Lines, 8 on a page. ___Begins on fol. 38rt of the MS. described under No. 2631.
Trcats of such of the Prāvascittas or expiatory ceremonies as have to be performed to extricate one from the effects of the sins and as extend over periods varying from a vear to twenty years.
Complete. Beginning:
अथातस्सौदर्शिनी नाम प्रायश्चित्तप्रयोगो लिख्यते---
हेमाद्रिवैद्यनाथाद्यैः अतिद्रव्यसाध्यप्रायश्चित्तं कर्तुं मनुष्याणामशक्यत्वेन तदनिधू (तपापा)नां वर्षादूर्ध्व न निष्कृतिरिति स्मृतिवचनात् वर्षादूर्ध्व प्रायश्चित्तं नोक्तम् । यदि द्रव्यमस्ति ; तद्व्ययेन ब्राह्मण्यादिकं सम्पादितुमप्यास्था यदि; तेषां नारायणादिस्मृत्युक्तप्रायश्चित्तमस्त्येव ; तदेकवर्षादिविंशतिवर्षपर्यन्तम् । तच्च वक्ष्यते
प्रथमं प्रायश्चित्तारम्भपूर्वदिने सायाह्ने पूर्वो(क्त)क्रमात् क्षौरं, दन्तधावनं, प्रायश्चित्तारम्भदिने नित्यकर्मावसाने प्राच्याङ्गगोदानं, यजमादा(ना)नुवादकविधायकसंवादः, परिपत्संमेलनम् ।।
आहत्य सर्वकलशाः द्विशतं भवन्ति । पूर्वोक्तद्विशतकलशस्थापनेन साक्षात्सुदर्शनाकारो भवति । अत एव सौदर्शिनीति तन्नाम भवति । पञ्चसौदर्शिनीनां स्थापनक्रमश्च । End:
विरजाहोमञ्च जुहुयात् । तदशक्तौ शतं शतं वा जुहुयात् । देवस्य त्वेति मन्त्रेण अवरोहणक्रमेण सहस्रकलशोदकैरभिषेचयेत् । भन्यत्सर्वमेकसौदर्शिनीवत् कुर्यात् पञ्चसौदर्शिन्याम् ।
For Private and Personal Use Only