________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
2769
End:
पद्मनाभाय मन्त्रेण पृष्ठे वै धारयेत्क्रमात् । दामोदराय मन्त्रेण धारयेत्पश्चिमे गळे ।। द्वादशाक्षरमुच्चार्य शेषं शीर्षे तु धारयेत् । ललाटे कण्ठदेशे च स्कन्धयोश्च त्रिके तथा । चतुरङ्गळमानानि पञ्च पुण्ड्राणि धारयेत् । हृदये चोदरे चैव पार्श्वयोः पृष्ठ एव च ।। बाह्वोर्मध्ये च सप्त स्युः पुण्ड्राण्यष्टाजुलानि वै । ब्यङ्गुलं विस्तृतं रम्यं चतुरङ्गुळमायतम् ।। प्रथमव्यूह एव स्यात् पञ्चपुण्डूस्य लक्षणम् । व्यङ्गलं विस्तृतं रम्यमष्टाङ्गलकमायतम् ॥ द्वितीयव्यूह एवं स्यात् सप्तपुण्ड्रस्य लक्षणम् ।
भरद्वाजः
ऊर्ध्वपुण्ड्रविधौ मोक्षमङ्गष्ठं तर्जनी श्रियम् । मध्यमः पशुपुत्रादि मोक्षैश्वर्यमनामिका ॥ वश्यं कनिष्ठिका कुर्यात् नचान्येन विधीयते । यथाकामं न वर्याभिः(वांद्यैः) न नखैरिति केचन ॥ चतुरङ्गलमूर्ध्वाय व्यङ्गुलं विस्तृतं तथा । द्विजः पुण्डूमृगँ कुर्यात् सान्तराळं तु धारयेत् ॥ ऊर्ध्वपुण्डूस्य मध्ये तु विशाले सुमनोहरे ।
श्रिया साध समासीनो रमेऽहं तत्र निर्वृतः ॥ इति ऊर्ध्वपुण्ड्रविधिः ॥
For Private and Personal Use Only