________________
Shri Mahavir Jain Aradhana Kendra
1644
End :
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
सर्वालयं सर्वचराचरस्थं तमेव विष्णुं शरणं प्रपद्ये ॥ अर्जुन उवाच -
यदेकं निष्कळं ब्रह्म व्योमातीतं निरञ्जनम् । निर्मलं परमं दिव्यमप्रमेयमनुत्तमम् ॥ अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् । कैवल्यं केवलं शान्तं शुद्धमत्यन्तनिर्मलम् ॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । नीवारायै (ग्र) स्थितं सूक्ष्मं ज्ञानयोगस्वरूपिणम् || निर्गुणं परमं गुह्यं भिन्नाञ्जनसमप्रभम् । तत्क्षणादेव मुच्येत तज्ज्ञानं ब्रूहि केशव ||
श्रीभगवानुवाच
साधु साधु महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् ॥ आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् । भावेन गतकाम्यानां भावना (i) ब्रह्म चक्षते ||
तस्मात्सर्वप्रयत्नेन योगयुक्तो भवार्जुन । अन्तरसङ्गं बहिस्सङ्गमात्मसङ्गं परित्यजेत् ॥ सर्वसङ्गनिवृत्तात्मा पश्य (श्ये) दात्मानमात्मनि । विषयासक्तेष्विदं शास्त्रमन्धस्यादर्शनं यथा ॥ गीतासारमिदं प्रोक्तं गीतासारसमुच्चयम् । तत्र स्थितं परं ब्रह्म ज्ञानं वेद सुनिश्चलम् ॥
For Private and Personal Use Only