SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1642 A DESCRIPTIVE CATALOGUE OP कलिकालभयात्सर्वे शौनकाद्या महर्षयः । वरेण्ये नैमिशारण्ये न्यवात्सुब्रह्मवादिनः ॥ आरेभिरे ब्रह्मसत्रं सहस्रसममादरात् । कलौ दुरितभूयिष्ठे दुर्बलानां हि देहिनाम् ।। रक्षणायैव साधूनां धर्मानुष्ठानतत्पराः । तत्राविरासीत्सुमनाः सूतस्सर्वपुराणवित् ।। जाह्नवीं सर्वफलदां पावनं नैमिशं वनम् । ऋषीणां बालबद्धांश सहशिष्यान् सहानुगान् ।। मृगपक्षिगणात्रम्यान् पादपान्विविधानपि । पुरा कैलासशिखरे नन्दिकेशाय शम्भुना । विस्तरेणोपदिष्टं यत् ब्रह्मविष्ण्वादिसन्निधौ ।। ततः कुमाराय ततः नन्दिकेशेन बोधितम् । कुमारो नारदायाह सोऽपि व्यासाय ते तु सः ।। इतीदं भवता पूर्व संक्षिप्यास्माकमीरितम् । विस्तरेणाद्य वक्तव्यं तत्र नः कौतुकं बहु ।। यदि ते करुणास्मासु यद्यस्ति सुकृतञ्च नः । आगो विस्मृतिसंभूतं क्षम्यतां तर्हि सांप्रतम् ।। Colophon: इति श्रीमद्ब्रह्माण्डपुराणे कौमारखण्डे उपरिभागे कुमारनारदसं. वादे क्षेत्रतीर्थप्रशंसायामादिपुरमाहात्म्ये सूताविर्भावो नाम प्रथमोऽ. ध्यायः ॥ __ श्रीसूतःसर्वेष्वपि पुराणेषु ब्रह्माण्डं मुख्यमुच्यते । कौमारखण्डन्तत्रापि मुख्यं पुण्यकथास्पदम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy