SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1822 A DESCRIPTIVE CATALOGUE OF नमस्कृत्वाप्रमेयाय महादेवाय शम्भवे ॥ पुरुषाय पुराणाय त्रिमूर्तिजनकाय च ॥ पुरा कैलासशिखरे नन्दिनं विश्वनन्दिनम् । रत्नपीठे सुखासीनं गणेशैः परितो वृतम् ॥ रत्नवेत्रलसत्पाणिं सुयशापतिमीश्वरम् । संस्थिता(त) मन्दरप्रख्यं द्वितीयमिव शङ्करम् ॥ प्रणिपत्य मरीचस्तु ब्रह्मपुत्रो महायशाः । प्रह्वो बद्धाञ्जलिपुटो उवाच सभयं पुरः ॥ Colophon: इति श्रीमन्मारीचोपपुराणे प्रथमोऽध्यायः ।। End: देयमेतद्धि कथितं शिवज्ञानमनुत्तमम् । भक्ताय च विनीताय सम्यक् शुश्रूषवे त्वया ॥ देयं नान्यजने विद्वन् एतद्धि मम शासनम् । इति नन्दिवचः श्रुत्वा मरीचो नन्दिकेश्वरम् ।। प्रणम्य पादौ तस्याज्ञां गृहीत्वा स्वाश्रमं ययौ । सूत उवाचएतद्वः कथितं ज्ञानं गुह्याद्गुह्यतरं परम् ॥ मारीचमिदमाख्यातं गुरुणा मे प्रसादतः। भवन्तोऽपि जयन्त्वाशु महादेवं महेश्वरम् ॥ प्राप्यानुज्ञां मुनीन्नत्वा ययौ सूतो यथागतम् । Colophon: इति श्रीमारीचोपपुराणे पञ्चमोऽध्यायः ॥ मारीचोपपुराणं समाप्तम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy