SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE BANSKRIT MANUSCRIPTS. 1855 पञ्चाक्षरतर्नु पञ्चवदनं प्रणवं शिवम् । अपारकरुणारूपं गुरुमूर्तिमहं भजे ॥ नत्वा सर्वगुरुं साम्बं लीलामानुषविग्रहम् । रामं च शिवगितायाः तात्पर्य वर्ण्यते मया ॥ क्केयं गीता शिवप्रोक्ता गम्भीरोपनिषन्मयी । क्वाहं मन्दमतिर्हन्त शम्भोराज्ञा गरीयसी ॥ इह खलु देवा रावणादिरक्षःपीडिताः तत्परिचरणादी(धी)नाः मानभङ्युक्ताः तेनैव विनितभूदेवादिकर्तृकयज्ञानुष्ठानेन बलहीनाश्च सन्तः वैकुण्ठवासिनं भगवन्तं. . . . पाशुपतास्त्रादिकं लब्ध्वा रावणसंहारे कृतनिश्चयः लोकानुग्रहार्थ ज्ञानं तत्साधनानि जीवादिस्वरूपं च शिवं पृष्टवान् ; श्रीशिवेनापि तस्मै सर्वमुपदिष्टम् । तामेतां शिवेन प्रोक्तां श्रीरामेण श्रुताम् उपनिषन्मयीं पठनादिमात्रेण ब्रह्मविद्याप्रदात्री शिवगीतामवतारयितुमुपक्रमते ---- अथेत्यादिना अध्यायचतुष्टयेन । एवं च अध्यायचतुष्टयस्य तदवतारणग्रन्थरूपत्वात् शिवगीतात्वम् । End: ___ अस्यां शिवगीतायां भस्मोद्भूलनत्रिपुण्डूरुद्राक्षधारणशिवक्षेत्रवासशिवलिङपूजाशिवनामस्मरणपञ्चाक्षरजपशिवध्यानादिकं कर्तव्यं, श्रवणादिपुरस्सरं शिवज्ञाननिष्ठापि संपादनीयेत्युक्तम् । एवं निश्चितवन्त ऋषयस्सन्तुष्टाः गोमतीतटं गोमतीतीरं सन्ध्यामुपासितुं प्रययुः ।। Colophon : इति श्रीमत्परमहंसपरिव्राजकाचार्याभिनवनारायणेन्द्रसरस्वतीपूज्यपादशिष्यश्रीपरमशिवेन्द्रसरस्वतीविरचितायां श्रीशिवगीतातात्पर्यप्रकाशिकायां षोडशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy