________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
1749
Beginning :
नमश्शिवाय साम्बाय सगणाय ससूनवे । सनन्दिने सगङ्गाय सवृषाय नमो नमः ॥
ऋषय ऊचुःभगवन् सर्वशास्त्रार्थतत्त्वज्ञ करुणानिधे । पुण्डरीकपुरस्यास्य माहात्म्य सङ्ग्रहाच्छूतः(म्) । पुनश्च विस्तरात् श्रोतुं वाञ्छा नो महती गुरो । वयन्ते यद्यनुग्राह्या वद सूत घृणानिधे ॥ युष्मद्वक्त्राब्जसंभूतां पीत्वा वाक्यसुधां मुहुः । तृष्णा विवर्धतेऽस्माकमैक्यस्से(से)वामृतञ्जुषः(षाम् ) ||
सूतः-- नात्याचर्यमिदं विप्राः शम्भुपादाब्जसेविनाम् । शृण्वताञ्च(I)स्य माहात्म्यं तृष्णा यद्वर्ततेतराम् ।। यूयं धन्यतमा लोके ब्रह्मादीनां सुदुर्लभा । क्षेत्रमाहात्म्यशुश्रूषा येषां जाता सुनिश्चला ॥ शेषोऽपि नास्य माहात्म्यं विस्तराद्गति(दि)तुं क्षमः । वक्ष्यामि सङ्ग्रहेणाहं शृणुत। श्रन्द्वया सहा] ।
पुराबवीद्गुरुम्म(म)चं रहस्येतत् गृ(घृ)णानिधे । End:
चिदम्बरसमाख्याता विद्यैषा मुक्तिदा नृणाम् । मया नोक्ता त्वितः पूर्व सच्छिष्याभावतोऽनघौ ॥ युवयोरद्य वक्ष्यामि देवपादाब्जभक्तयोः । भवन्तावपि सश्रद्धं शृणुतं(I) भाग्यवत्तमौ ॥
203-A
For Private and Personal Use Only