________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1740
A DESCRIPTIVE CATALOGUE OF
तस्मात्सिद्धिः साधयेदात्मकार्य सद्भिश्शास्त्रैः श्रद्धया त्यागयोगैः ।। काश्यां कृतानां पापानां पुण्यानां वा समृद्धयः । भवन्ति सततं नूनं सुक्षेत्रे ह्युप्तबीजवत् ॥
सिद्धा ऊचुःदेवदेवारविन्दाच साङ्ख्योगप्रवर्तक । कथं मुच्येत मनुजः काश्यामेव कृतैरथैः ।। मोक्षं प्राप्नोति च कथं कथं वा जीवने सुखम् । आनन्दकानने ह्यस्मिन् कथमानन्दभाग्भवेत् ।।
कपिल उवाचइदमेव पुरा पृष्टः पार्वत्या भगवान्भवः । पापनाशं धर्मवृद्धिरविलम्बेन मोचनम् ।।
पार्वत्युवाच~दीनानाथैकशरण देवदेव दयानिधे ।।
पापं कृत्वा मृता ये च तेषां मुक्तिः कथं भवेत् । कृपया देव(वद)देवेश प्रायश्चित्तमशेषतः ॥
- महादेव उवाचशृणु पार्वति वक्ष्यामि यद्वोप्यं मम सर्वतः । पुण्यवद्धिः पापवद्भिः कर्तव्यं काशिवासिभिः ।। न कोऽपि दृष्टो मनुजः विना पापं शरीरभाक् ।
End:
तथा साहसमालम्ब्य काशीमनुगतो भवेत् ॥ गुरुद्रोहपरो यस्तु विप्रद्रोहपरस्तथा ।
For Private and Personal Use Only