________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1724
A DESCRIPTIVE CATALOGUE OF
काश्यपोऽत्रिभरद्वाजो विश्वामित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सूतं पप्रच्छुरादरात् ।। मुने कथय पुण्यानां क्षेत्राणामुत्तमं पुनः ।
सूतः-- वेदव्यासं मुनिश्रेष्ठं प्रणिपत्य शुकः पुरा ।। माहात्म्यं तोतशैलस्य कथयस्व यथातथम् ।
श्रीवेदव्यास उवाच - कृष्णद्वैपायनो व्यासः शुकाय निजसूनवे ॥ श्रीमत्तोताद्रिमाहात्म्यं कथयामास तत्त्वतः । प्रस्थितस्तीर्थयात्रार्थ पाण्डुपुत्रोऽर्जुनः पुरा ॥ प्रसादसुमुखं कृष्णं प्रणिपत्येदमब्रवीत् । भगवन् पुण्डरीकाक्ष शरणागतवत्सल ॥ ब्रूहि क्षेत्राणि पुण्यानि तीर्थयात्रोद्यतस्य मे ।
श्रीकृष्ण उवाचअहोबिलं वेङ्कटादि सिंहादि करिभूधरम् ॥ घटिकाद्रिश्च तोतादि वक्षिारण्यं सुपावनम् । श्रीमुष्णं कुम्भघोणञ्च श्रीरङ्गक्षेत्रमुत्तमम् ।।
____ अर्जुन उवाचइमानि श्रुतपूर्वाणि क्षेत्राणि धरणीतले । श्रीमत्तोतगिरेः पुण्यमाहात्म्यं वद मेऽधुना ।।
श्रीकृष्ण उवाचश्रीमत्तोताद्रिमाहात्म्यं कथयामि तवाद्भुतम् । श्रोतृणां सर्वफलदं समाहितमनाश्शृणु ॥
For Private and Personal Use Only