________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1707
चिदम्बराभिधानस्य स्थानवर्यस्य वैभवम् । महाभागो महेशोऽपि भगवान्वेत्ति वा न वा ॥ अष्टादशपुराणेषु यत्पुराणं परं मतम् । मुक्तिदं मुक्तिदश्चैव शृण्वतामघनाशनम् ॥ इदं चिदम्बरोत्पन्नं पुराणं नन्दिकेश्वरः । उमानाथमुखाश्रु(च्छु)त्वा पुरा ब्रूते महामतिः॥ सनत्कुमारमुनये कथयामास विस्तरात् ।
End:
एवन्तीर्थविधिं कृत्वा देवदेवं नटेश्वरम् । सभां प्रवेशयामासुः अलङ्कारैरनिन्दितैः ।। इति सुरगुरुतुल्यैस्तिल्लकारण्यविप्रैः सकलनिगमपारावारपारीणचित्तैः । फणिकुलतिलकेन व्याघ्रपादेन चापि
प्रतिदिनमुपचारैः अर्चितोऽभून्नटेशः ॥ अध्यायमेतं य इमे पठन्ति शृण्वन्ति नन्दन्त्यथवा लिखन्ति ।
तेषामसौ वर्णसभाधिनाथः सायुज्यमिष्टश्च फलन्ददाति ॥ Colophon :
इति श्रीमत्स्कान्दे महापुराणे चिदम्बरमाहात्म्ये हेमवर्मणा रथोत्सवानन्द(न्त)रतीर्थविधिविधानं नाम षड्विंशोऽध्यायः ।।
यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोस्संस्मरणात्पुंसां सर्वतो जयमङ्गलम् ॥ The following is the subject-matter of the various cbapters herein:--
१, २, ३, ४.५. द्विजेन्द्रप्रशंसा. ६. व्याघ्रपादोत्पत्तिः.
For Private and Personal Use Only