________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
1695
वीरमल्लेश्वराराध्यवरहस्ताम्बुजोद्भवम् । माहेश्वरपदाम्भोजषट्पदं षट्स्थलान्वितम् ॥ लिङ्गाङ्गसङ्गिनं संविल्लिङ्गपूजापरायणम् । श्रीमत्षडक्षरमिन्त्रजपमालाविभूषितम् ।। भस्मत्रिपुण्ड्रविलसत्फालभागविराजितम् । सर्वावयवसंराजद्रुद्राक्षाभरणैर्युतम् ।। सर्ववेदागमाभ्यासशैवज्ञानसमन्वितम् । खशिष्यहृदयाम्भोजमरन्दपमधुव्रतम् ॥ निजलिङ्गार्चनानन्दकेळीलालसवैभवम् । तत्प्रसादोपबोधैकनिष्ठाचतुरशीलिनम् ॥
अस्मद्गुरुमहं वन्दे सर्वमङ्गळदायकम् । अस्य श्रीगुरुगीताशास्त्रमहामन्त्रस्य, श्रीसाम्बशिव ऋषिः, नानाविध- . च्छन्दांसि, श्रीगुरुर्देवता,
विनियोगः ।
न्यास
हंसाभ्यां परिवृत्तपत्रकम . . . . गुरुम् ॥
साक्षिणं प्रत्यगानन्दं तं चरन्तं सदाशिवम् ।
. सूत उवाचकैलासशिखरे रम्ये भक्तानन्दप्रदायकम् । प्रणम्य पार्वती भक्त्या शङ्करं परिपृच्छति ॥
For Private and Personal Use Only