________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1330
A DESCRIPTIVE CATALOGUE OF यं वक्तुं मुकुरा इवेन्द्रियमनोमायाः पराग्दृश्यतां निन्युस्तत्थविमादि(त्तदुपाधि) नापि च विराटसूत्रेशभावं गतम् । तं प्रत्यग्दृगदृश्यमक्षयमणुं त्यक्तोपनेत्रत्रयाः । श्रीगोपालमुपास्महे श्रुतिशिरोवल्लीरवैर्दर्शितम् ।। बाह्य । तेनाभिभाषी बहिरुदवासतं पाति तर्कोऽप्रतिष्ठो मीमांसा प्रातिहार्य भजति गुणगणं यस्य संख्याति सांख्यः । हृत्पीठे योगशुद्धे विलसदु(पनि षडाहबृन्दैः परं मे भाग्यं श्रीलक्ष्मणार्यो जगति विजयते यस्य वेशाश्शिवाद्याः ।। हरिविध(धि)वाश (सि)ष्ठशक्तिपराशरव्यासशुकदेवान् । वैशम्पायनमुग्रश्रवसं च नुमः पुराणगुरुमुख्यान् ॥ कणमु(भ)क्षमक्षचरणं जैमिनिकपिलौ पतञ्जलिं च नुमः । श्रीमन्यासवचोऽम्बुधिनयसी(शी)करवर्षिणो मुदिरान् ।। सर्वे विद्येशतामाविश्चिकीर्षु पूर्वपूरुषौ ।
श्रीनारायणधीरेशरूपौ हरिहरौ नुमः ।। बहून् समाहृत्य विभिन्नदेश्यान् कोशान्विनिश्चित्य च पाठमग्यम् । प्राचां गुरूणामनुसृत्य वाचम् आरभ्यते भारतभावदीपः ।। टीकान्तराणीन्दुरविप्रभाणि बाह्यार्थरत्नानि च कासयन्तुं । अन्तर्निगूढार्थचयप्रकाशे दीपः क्षमो भारतमन्दिरेऽस्मिन् ।। ईशप्रसादादवितुं स्ववंश्यान् भगीरथेने(व) मया प्रणीता । एषा महाभारततीर्थगङ्गा लोकत्रयीचोद्यमलं धुनोतु ॥
इह खलु भगवान् पाराशर्यः परमकारुणिको मन्दमध्यममतीन् अनुगृहीतुं चतुर्दशविद्यास्थानरहस्यानेकत्र (पि)प्रथथिषुः महाभारताख्यमितिहासं प्रणेष्यन् प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च कृतं मङ्गळं शिष्यशिक्षायै श्लोकरूपेण निबध्नन् अर्थात्तत्र प्रेक्षवा
For Private and Personal Use Only