________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1327
THE SANSKRIT MANUSCRIPTS. श्रद्धया परया भक्तया श्राव्यते चापि येन तु। य इमां संहितां पुण्यां पुत्रमध्यापयच्छुकम् ।। मातापितृसहस्राणि पुत्रदारशतानि च । संसारेषुनुभूतानि यान्ति यास्यन्ति चापरे ।। हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ।। ऊर्ध्वबाहुर्विरोम्येष न च काश्चच्छृणोति मे । धर्मश्चार्थञ्च (श्च) कामश्च स किमर्थं न सेव्यते ॥
न जातु कामान्न भयान्न लोभात् धर्म त्यजेज्जीवितस्यापि हेतोः । नित्यो धर्मस्सुखदुःखे त्वनित्ये
जीवो नित्यो हेतुरस्य त्वनित्यः ॥ इमां भारतसावित्री प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ यथा समुद्रो भगवान् यथा च हिमवान्गिरिः । ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ।। इमं भारतमाख्यानं यः पठेत्सुसमाहितः । स गच्छेत्परमां सिद्धिमिह नास्ति हि संशयः ॥ द्वैपायनोष्ठपुटनिस्सृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुषरजलैरभिषेचनेन ॥ पुराणवाचको भक्तचा पूजनीयः प्रयत्नतः । वस्नालङ्कारदानैश्च क्षेत्रदानेन सर्वदा ॥
For Private and Personal Use Only