________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1322
A DESCRIPTIVE CATALOGUE OB
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ । स्वकृतात्मानुशान्तिः स्यात् शमाद्बहुविधादपि ॥ शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्यते । शमं नोपलभे वीर दुष्कृतान्यनुचिन्तयन् । रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् । त्वां दृष्ट्वा पुरुषव्याघ्र निदेदा(ददुः) वर्षमम्बुदाः ॥ अतः कष्टतरं किन्नु मत्कृतन्तु पितामह । इमामवस्थां गमितः प्रत्यमित्रे रणाजिरे ॥ अन्ये नृपतयश्चान्ये सपुत्रास्सहबान्धवाः । वयं वा धार्तराष्ट्राश्च काममन्युवशङ्गताः ॥ कृत्वैवं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप । सोऽहमार्तिकरो जातः सुहृद्वधकरस्तथा ॥ न शान्तिमाधिगच्छामि कुतश्चित्संशितव्रतः ।
भीष्मः-- परतन्त्रः कथं हेतुमात्मानमनुपश्यसि । कर्मण्यस्मिन् महाभाग सूक्ष्मं हेत(तु)रतीन्द्रियम् ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । संवादं मृत्युगौतम्याः काललुब्धकपन्नगैः ।। गोतमी नाम काप्यासीत् स्थविराशयसंयुता । सर्पण दष्टं त्व(स्वं)पुत्रमपश्यद्गतजीवनम् (चेतसम्) || अथ तं लुब्धको राजन् बध्वा सर्पममर्षणः । लुब्धको जनको नाम गौतम्यास्समुपानयत् ॥
For Private and Personal Use Only