________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1314
A DESORIPTIVE CATALOGUE OF
Beginning:
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे. शुकतातं तपोनिधिम् ।। यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे सुबहुश्रुताय । पुण्याञ्च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अफाललोचनश्शम्भुर्भगवान्बादरायणः । श्रीमत्फुल्लजपाप्रसूनसुषमासादृश्यदेहप्रभं दोभिर्वेदमितैरपूपुरदसा पाशाङ्कुशौ तुन्दिलम् ।। बिभ्राणं फणियज्ञसूत्रममलाकल्पं सुत्रिणेनं सदा
गण्डोपान्तगलन्मदं गणपतिं गौरीतनूजं भजे ॥ कृत्वा विवाहं तु कुरुप्रवीरास्तथाभिमन्योर्मुदितस्वपक्षाः । विश्रम्य चत्वार्युषसः प्रतीताः स्स(स्वच्छा) विराटस्य ततोऽभिजग्मुः ।। सभा तु सा मत्स्यपतेस्समृद्धा मणिप्रवालोत्तमरत्नचित्रा । न्यस्तासना माल्यवती सुगन्धा तामध्ययुस्ते नरराजद्धाः ॥ अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ । वृद्धाश्च मान्याः पृथिवीपतीनां पित्रा समौ रामजनार्दनाभ्याम् ।। पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरस्सहरौहिणेयः । मत्स्यस्य राज्ञस्तु स सन्निकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥
End:
एवं तस्य बलं भमि कुन्तीपुत्रस्य धामतः । यथाश्रित्याथ युयुधे धार्तराष्ट्र(:) सुयोधनम्(:) ।। ततोऽन्ये शतशः पश्चात् सहस्रायुतशौ नराः । नर्दन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥
For Private and Personal Use Only