________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1304
A DESCRIPTIVE CATALOGUE OF
रोमहर्षणपुत्र उग्रश्रवास्सौतिः पौराणिको नैमिंशारण्ये शौनकस्य कुलपतेः द्वादशवार्षिके सत्रे
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन् संशितव्रतान् । विनयावनतो भूत्वा कदाचित्सूतनन्दनः ।। तमाश्रममनुप्राप्तो नैमिशारण्यवासिनाम् । चित्राः श्रोतुं कथास्तत्र परिवत्रुस्तपस्विनः ॥ अभिवाद्य मुनीस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धान् सद्भिश्चैवाभिपूजितः ॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।। निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ।। सुखासीनं ततस्तन्तु विश्रान्तमुपलक्ष्य च । अथापृच्छदृषिस्तत्र कश्चित्प्रास्तावयत्कथाः ॥ कुत आगम्यते सौति(ते) क चायं विहृतस्त्वया । कालः कमलपत्राक्ष शंशै(सै) तत्पृच्छतो मम ॥
सौतिरुवाचजनमेजयस्य राजर्षेस्सर्पसत्रे महात्मनः । समीपे पार्थिवेन्द्रस्य सम्यक् पारीक्षितस्य च ॥ कृष्णद्वैपायनप्रोक्तास्सुपुण्या विविधा(:) कथाः । कथिताश्चापि विधिवद्यो वैशम्पायनेन वै ॥ श्रुत्वाहं ता विचित्रार्थमहाभारतसंश्रिता(:) । बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।
End:
दद्याद्वै ब्राह्मणेभ्यश्च भोजनञ्च सदक्षिणम् । इदं स्वर्गप्रदं श्रेष्ठं ब्रह्महत्यानिवारणम् ।
For Private and Personal Use Only