SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1298 A DESCRIPTIVE CATALOGUE OF उत्पत्तिप्रकरणे सर्वसृष्टिश्रुतितात्पर्योद्घाटनाय मनोऽधीनैव सर्वप्रपञ्चरचनेति दर्शितम् । स्थितिप्रकरणे च सर्वजगत्स्थितिप्रतिपादकश्रुतितात्पर्यप्रदर्शनाय मनस्थित्यधौनव सर्वप्रपञ्चस्थितिरिति दर्शितम् । इदानीम् “ यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छत एतस्मिन् तेजोमण्डल एकीभवन्ति, सुषुप्तिकाले सकले विलीने, यत्प्रयन्त्यभिसंविशन्ति, यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय, गताः कलाः पञ्चदशं प्रतिष्ठाः, एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति" इत्यादीनां सुषुप्तिप्रळ यसमाधिसाक्षात्कारविदेहकैवल्येषु प्रपभोपशमात् जीवस्य ब्रह्मस्वभावताप्राप्तिप्रतिपादनेन प्रत्यग्ब्रह्मैकरसाखण्डवस्तुलक्षणश्रुतीनामपि मनउपशमादेव सर्वप्रपञ्चोपशमेन. खरूपप्रतिष्ठायां तात्पर्यमिति रहस्योद्धाटनायोपशमप्रकरणमारभमाणः पूर्वोत्तरप्रकरणयोस्सङ्गतिं दर्शयन् विषयप्रयोजने निर्दिश्य शिष्यमवधारयन् प्रतिजानीते अथेति । श्रीवसिष्ठः-- अथ स्थितिप्रकरणादनन्तरमिदं शृणु। उपशमप्रकरणं ज्ञातं निर्वाणकारि यत् ॥ १ ॥ मध्याह्नशङ्खध्वनिना सहोत्थानमिहोच्यते । वसिष्ठस्याहिक रात्रौ विश्वामित्रसहस्थितिः ॥ २ ॥ (व्या) अथ स्थितिप्रतिपादकश्रुतितात्पर्यवर्णनानन्तरम् उपसंहारबोधकश्रतितात्पर्यवर्णनस्यावसरसङ्गतरित्यर्थः । ज्ञातं निर्वाणकारीति । तथा च पूर्वप्रकरणप्रयोजनमेवास्यापीत्येककार्यकारिता सङ्गतिरीप दर्शिता बोद्ध व्या । For Private and Personal Use Only
SR No.020188
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 01
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1907
Total Pages373
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy